Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४६०
नदीमुत्तीर्य चौरोऽथ दधावे साऽथ तं जगौ । किमेवं यासि सोऽवादीन विश्वसिमि ते शुभे ! ।४४। त्वयैकोऽघात्यत यथा तथा त्वं जातु मामपि । इत्युक्त्वा तस्करः सोऽगात् विलक्ष्या राज्यपि स्थिता ।४५। शूलाप्रोतो हस्तिपकः श्राद्धाजलमयाचत । स ऊचे चेन्नमस्कारं ध्यायसि त्वं ददामि तत् ।४६। ध्यास्यामीति स तेनोक्ते श्राद्धोऽगाजलहेतवे । ध्यायन्नेव नमस्कारं मिण्ठो मृत्वा सुरोऽभवत् ।४७। श्राद्धश्चारक्षकैर्बद्धश्चौरार्थं जलमानयन् । देवोऽवधे: प्रेक्ष्य शिलां विकुळ तममोचयत् ।४८। शरस्तम्बे च दृष्ट्वा तां तदर्थं फेरुरूपभाक् । अर्वाग् मुक्त्वाऽऽमिषं वक्त्रात्तीरमत्स्याय धावितः ।४९। आमिषं जगृहे श्येनो मीनोऽन्तःसलिलं गतः । शृगालोऽथ विलक्षोऽस्थाद् ध्यायंस्तमथ साऽब्रवीत् ।५०। मांसखण्डं परित्यज्य मत्स्यं याचसि जम्बुक !। भ्रष्टो मीनाञ्च मांसाञ्च दीनं ध्यायसि फेरव ! ५१। सोऽवक् पत्रपुटच्छन्ने ! अयश:कारिके ! पितुः । भ्रष्टा पति चोपपतिं दीनं ध्यायसि बन्धकि ! ५२। इत्युक्ते व्रीडिता साऽस्थात्सोऽथाऽभूदिव्यरूपभाक् । तस्याः स्ववृत्तमावेद्य व्रतार्थित्वमजीजनत् ।५३। तेन सन्तm राजाऽथ तामग्राह्यत पुंश्चलीम् । अथ सत्कारपूर्वं सा नि:क्रष्किम्य स्वर्गभागभूत् ।५४। १. विलक्षा ल ल प ।• फेरवः - फेरुः तत्संबोधने । * बन्धकी - व्यभिचारिणी स्त्री, तत्संबोधने ।
****************
आ. नि.
सा. नि. *'कथम्' द्वारम्
सामायिकलाभे * कथाः अकामनिर्जरायां
मिण्ठः। गाथा-८४७
४६०
XXXXXXX
準準準準準準準準準準準準

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522