Book Title: Anusandhan 2004 07 SrNo 28 Author(s): Shilchandrasuri Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 9
________________ अनुसंधान-२८ तस्याप्युन्नतिमम्बुदस्य सहसे यन्न त्वमेतावता वर्णेनैव परं मराल ! धवलः कृष्णश्चरित्रैरसि ॥२॥ गाङ्गमम्बु सितमम्बु यामुनं, कज्जलाभमुभयं निमज्जतः । चीयते न च न चाऽपचीयते, राजहंस ! तव शुद्धपक्षता ॥३॥ सन्त्यन्यत्रापि वीचीचयचकितचलत्क्रोञ्चचञ्चुप्रभिन्नप्रोनिद्राम्भोजरेणुप्रकरविरचनाहारिवारिप्रवाहाः । किन्तु स्वच्छाशयत्वं जगति न सुलभं तेन गत्वाऽपि दूरं बद्धो क(त्कण्ठानुरागादनुसरति सरो मानसं राजहंसः ॥४॥ तटमनुतटं पद्मे पद्मे निवेसि(शि)तमानसं प्रतिकमलिनीपत्रच्छायं क्षणं क्षणमासितम् । नयनसलिलैरुष्णैः कोष्णां कृता जलवीचयो जलदमलिनां हंसेनाऽऽशां विलोक्य गमिष्यताम् ॥५॥ गतं तद्गाम्भीर्यं तटमुपचितं जालिकशतैः सखे ! हंसोत्तिष्ठ त्वरितममुतो यामि सरसः । न यावत् पङ्काम्भःकलुषिततनुभूरि विलसन् बकोटो वाचाटश्चरणयुगलं मूर्ध्नि कुरुते ॥६॥ सरसि सरसि वीची मन्ददोलायितानां तदनु विलसताऽग्रं त्वन्मुखाद् यन्मयाऽऽत्तम् । इति मनसि निविष्टामालपेन्नैव हंसी त्यजति विरहखेदाज्जीवितं राजहंसः ।।७।। अपसरणमेव युक्तं मौनं वा तत्र राजहंसस्य । कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥८॥ स्थित्वा चिरं नभसि निश्चलतारकेण, मातङ्गसङ्गमलिनां नलिनी विलोक्य । उत्पन्नमन्यु परिघर्घरनिस्वनेन, हंसेन साश्रु परिहृत्य गतं निलीनम् ॥९॥ हंसाष्टकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 110