SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२८ तस्याप्युन्नतिमम्बुदस्य सहसे यन्न त्वमेतावता वर्णेनैव परं मराल ! धवलः कृष्णश्चरित्रैरसि ॥२॥ गाङ्गमम्बु सितमम्बु यामुनं, कज्जलाभमुभयं निमज्जतः । चीयते न च न चाऽपचीयते, राजहंस ! तव शुद्धपक्षता ॥३॥ सन्त्यन्यत्रापि वीचीचयचकितचलत्क्रोञ्चचञ्चुप्रभिन्नप्रोनिद्राम्भोजरेणुप्रकरविरचनाहारिवारिप्रवाहाः । किन्तु स्वच्छाशयत्वं जगति न सुलभं तेन गत्वाऽपि दूरं बद्धो क(त्कण्ठानुरागादनुसरति सरो मानसं राजहंसः ॥४॥ तटमनुतटं पद्मे पद्मे निवेसि(शि)तमानसं प्रतिकमलिनीपत्रच्छायं क्षणं क्षणमासितम् । नयनसलिलैरुष्णैः कोष्णां कृता जलवीचयो जलदमलिनां हंसेनाऽऽशां विलोक्य गमिष्यताम् ॥५॥ गतं तद्गाम्भीर्यं तटमुपचितं जालिकशतैः सखे ! हंसोत्तिष्ठ त्वरितममुतो यामि सरसः । न यावत् पङ्काम्भःकलुषिततनुभूरि विलसन् बकोटो वाचाटश्चरणयुगलं मूर्ध्नि कुरुते ॥६॥ सरसि सरसि वीची मन्ददोलायितानां तदनु विलसताऽग्रं त्वन्मुखाद् यन्मयाऽऽत्तम् । इति मनसि निविष्टामालपेन्नैव हंसी त्यजति विरहखेदाज्जीवितं राजहंसः ।।७।। अपसरणमेव युक्तं मौनं वा तत्र राजहंसस्य । कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥८॥ स्थित्वा चिरं नभसि निश्चलतारकेण, मातङ्गसङ्गमलिनां नलिनी विलोक्य । उत्पन्नमन्यु परिघर्घरनिस्वनेन, हंसेन साश्रु परिहृत्य गतं निलीनम् ॥९॥ हंसाष्टकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520528
Book TitleAnusandhan 2004 07 SrNo 28
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2004
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy