________________
July 2004
(२)
अस्तं मित्रे वापी कवलित शतगुण दिनान्त एकेन । उत्कूजति कथय [तथा] वदन्ति चक्राष्टकं नाम ॥१॥ अस्तं गतोऽयमरविन्दवनैकबन्धुर्भास्वान्न लङ्घयति कोऽपि विधिप्रणीतम् । चक्राङ्ग ! धैर्यमवलम्ब्य विमुञ्च शोकं धीरास्तरन्ति विपदं नहि दीनचित्ताः ॥२॥
मित्रे क्वापि गते सरोरुहवने बद्धानने क्लाम्यति क्रन्दत्सु भ्रमरेसु वीक्ष्य दयिताश्लिष्टं पुरः सारसम् । चक्राङ्गेन वियोगिना बिशलता ना (नो) खादिता नोज्झिता वक्त्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ||३||
वापीतोयं तटतरुवनं पद्मिनीपत्रशय्या | चन्द्रालोको विकचकुमुदामोदहृद्य: समीर: । यत्रैतेऽपि प्रियविरहिणो दाहिनश्चक्रनाम्नस्तत्रोपायः क इह भवतः प्राणसन्धारणाय ||४||
कवलितमिह नालं कन्दलं चेह दृष्टं इह हि कुमुदकोशे पीतमम्भः सुशीतम् । इति विरटति रात्रौ पर्यटन्ती तटान्ते सहचरपरिमुक्ता चक्रवाकी वराकी ॥५॥ श[त] गुणपरिपाट्यो पर्यटन्नन्तराले कुमुदकुवलयानामद्धरात्रेऽप्यखिन्नः । उपनदि दयितायाः क्वापि शब्दं निशम्य भ्रमति पुलिनपुष्टे चक्रवच्चक्रवाकः ॥६॥
दिनान्ते चक्रवाकेन प्रियाविरहभीरुणा । तथा निःश्वसितं तेन यथा नोच्छ्वसितं पुनः ||७||
Jain Education International
For Private & Personal Use Only
5
www.jainelibrary.org