________________
अनुसंधान-२८ एकेनार्कं प्रकटितरुषा पाटलेनाऽस्तसंस्थं पश्यत्यक्ष्णाऽश्रुजललुलितेनाऽपरेण स्वकान्तम् । अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी
द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥८॥ उत्कूजति श्वसिति मुह्यति याति तीरं, तीरान् तरं तरुतलात् पुनरेति वापीम् । वापी न तिष्ठति न चात्ति मृणालखण्डं, चक्रः क्षपासु विरहे खलु चक्रवाक्याः ।।९।। कथय किमपि दृष्टं स्थानमस्ति श्रुतं वा, व्रजति दिनकरोऽयं यत्र नाऽस्तं कदाचित् । इति विहगसमूहान्नित्यमापृच्छतीदं, रजनिविरहभीतश्चक्रवाको वराकः ॥१०॥
चक्राष्टकम् ॥
(३) येन कृत्वापि मातङ्गेऽन्यासु निराचष्टे च दूराच्च । प्रतिवेशिनिरानन्दो भ्रमराष्टकमेतदाख्यातम् ॥१॥ येनामोदिनि केशरस्य मुकुले पीतं मधु स्वेच्छया नीता येन निशाशशाङ्कधवले पद्मोदरे शारिदै (शारदी ?) । भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां सोऽयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टिं कुतः ॥२॥ कृत्वाऽपि कोशपानं, भ्रमरयुवा पुरत एव कमलिन्याः । अभिलषति बकुलकलिकां, मधुलिहि मलिने कुतः सत्यम् ? ॥३॥ मातङ्गेन मदावलिप्तमतिना यत्कर्णतालानिलै
र्दानार्थं समुपागता मधुलिहो दूरं समुत्सारिताः । तस्यैधानमण्डनक्षितिरसौ भृङ्गाः पुनः सर्वतो जीविष्यन्ति वनान्तरेषु विकसत्पुष्पासवैः सीधुभिः ॥४॥ अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु । मुग्धामिमामसरसां कलिकामकाले, बालां कदर्थयसि किं नवमालिकायाः ? ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org