Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 304
________________ उपोद्घातः - [नि.८२२] ३०१ किण्हलेसा काउलेसं पप्प, किण्हलेसा तेउलेसं पप्प, एवं जाव सुक्कलेसं पप्प, एवमेगेगा सव्वाहिं चारिजति', ततश्च सम्यक्त्वश्रुतं सर्वास्ववस्थितकृष्णादिद्रव्यालेश्यासुलभते नारकादिरपि, शुद्धासु तेजोलेश्याद्यासु तत्तद्रव्यसाचिव्य-सञ्जातात्मपरिणामलक्षणासु तिसृषु च चारित्रं, शेषं पूर्ववदिति गाथार्थः ॥ साम्प्रतं परिणामद्वारावयवार्थ प्रतिदर्शयन्नाहनि. (८२३) वढते परिणामे पडिवज्जइ सो चउण्हमन्नयरं । एमेवऽवट्ठियंमिवि हायंति न किंचि पडिवजे । वृ- परिणामः-अध्यवसायविशेषः, तत्र शुभशुभतररूपतया वर्द्धमाने परिणामे प्रतिपद्यते स 'चतुर्णा' सम्यक्त्वादिसामायिकानामन्यतरत्, ‘एमेवऽवट्ठियंमिवि'त्ति एवमेवावस्थितेऽपि शुभे परिणामे प्रतिपद्यते स चतुर्णामन्यतरदिति, 'हायंति न किंचि पडिवज्जे' त्ति क्षीयमाणे शुभे परिणामे न किञ्चित् सामायिकं प्रतिपद्यते, प्राक्प्रतिपन्नस्तु त्रिष्वपि परिणामेषु भवतीति गाथार्थः ॥ अधुना वेदनासमुद्घातकर्मद्वारद्वयव्याचिख्यासयाऽऽहनि. (८२४) दुविहाएँ वेयणाए पडिवजइ सो चउण्हमन्नयरं । असमोहओऽवि एमेव पुव्वपडिवण्णए भयणा ॥ कृ-द्विविधायां वेदनायां-सातासातरूपायां सत्यां प्रतिपद्यते स चतुर्णामन्यतरत्, प्राक्प्रतिपन्नश्च भवति, 'असमोहतोऽवि एमेव'त्ति असमवहतोऽप्येवमेव प्रतिपद्यते स चतुर्णामन्यतरत्, प्राक्प्रतिपन्नश्च भवति, समवहतस्तु केवलिसमुद्घातादिना सप्तविधे न प्रतिपद्यते, किन्तु 'पुव्वपडिवण्णए भयण' ति पूर्वप्रतिपन्नके समवहते विचारयितुमारब्धे भजना सेवना समर्थना कार्या, पूर्वप्रतिपन्नो भवतीत्यर्थः, सप्तविधत्वं पुनः समुद्घातस्य, यथोक्तम् 'केवलि कसायमरणे वेदण वेउव्वि तेय आहारे । सत्तविह समुग्घातो पन्नत्तो वीयरागेहिं ॥१॥ इह च पूर्वप्रतिपनके भजना, समवहतो हि सामायिकद्वयस्य त्रयस्य वा पूर्वप्रतिपनको भावनीय इति गाथार्थः ।। गतं द्वारद्वयं, निर्वेष्टनद्वारप्रतिपादनायाहनि. (८२५) दव्वेण य भावेण य निविलुतो चउण्हमन्नयरं । नरएसु अनुव्बट्टे दुगं चउक्कं सिया उ उव्वट्टे ॥ वृ-द्रव्यतो भावतश्च निर्वेष्टयन् चतुर्णामन्यतरत् प्रतिपद्यते प्राक्प्रतिपन्नश्वास्ति, द्रव्यनिर्वेष्टनं कर्मप्रदेशविसङ्घातरूपं भावनिर्वेष्टनं क्रोधादिहानिलक्षणं, तत्र सर्वमपि कर्म निर्वेष्टयंश्चतुष्टयं लभते, विशेषतस्तदावरणं ज्ञानावरणं निर्वेष्टयन् श्रुतसामायिकमानोति मोहनीयं तु शेषत्रयमिति, संवेष्टस्त्वनन्तानुबन्ध्यादीन् न प्रतिपद्यते, शेषकर्म त्वङ्गीकृत्योभयथाऽप्यस्ति । उद्वर्तनाद्वारमधुना-नरकेषु-अधिकरणभूतेष्वनुद्वर्तयन्, तत्रस्थ एवेत्यार्थः, नरकाद्वेति पाठान्तरं, 'दुगं' ति आद्यं सामायिकद्विकं प्रतिपद्यते, तदेव चाधिकृत्य पूर्वप्रतिपन्नो भवति, उदृत्तस्तु ‘स्यात्' कदाचित् चतुष्कं प्रतिपद्यते कदाचित् त्रिकं,स पूवप्रतिपन्नोऽप्यस्त्येवेति गाथार्थः ॥ नि. (८२६) तिरिएसु अनुव्वट्टे तिगं चउक्कं सिया उ उव्वट्टे । मणनुएसु अनुव्बट्टे चउरो ति दुगं तु उव्वट्टे । वृ. 'तिर्यक्षु' गर्भव्युत्क्रान्तिकेषु संशिष्वनुहृत्तः सन् त्रिकम्' आद्यं सामायिकत्रयमधिकृत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452