Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 387
________________ ३८४ आवश्यक मूलसूत्रम्-१-१/१ सा पुनरनेन क्रमेणेत्थं तन्वीति दर्शयतिनि. (९६४) गंतूण जोअणं जोअणं तु परिहाइ अंगुलपुहुत्तं । तीसेऽविअ पेरंता मच्छिअपत्ताउ तनुअयरा ॥ वृ-गत्वा योजनं योजनं तु वीप्सा परिहायइत्ति परिहीयते 'अङ्गुलपृथक्त्वं' पृथक्त्वं पूर्ववत्, 'एवम्' अनेन प्रकारेण हानिभावे सति तस्या अपि च पर्यन्ताः, किं ? -मक्षिकापत्रात् तनुतरा घृतपूर्णतथविधकरोटिकाकारेति गाथार्थः ।। स्थापना चेयं । अस्याश्चोपरि योजनचतुर्विंशतिभागे सिद्धा भवन्तीति । अत एवाऽऽहनि. (९६५) ईसीपब्माराए सीआए जोअणंमि जो कोसो । कोसस्स य छब्भाए सिद्धाणोगाहणा भणिआ ॥ वृ- ईषत्प्राग्भारायाः सीताया इति पूर्ववत्, ‘योजने' उपरिवर्तिनि यः क्रोश उपरिवर्येव, क्रोशस्य च तस्य ‘षड्भागे' उपरिवर्तिन्येव सिद्धाानामवगाहना भणिता, लोकाग्रे च प्रतिष्ठिता इति वचनाद्, अयं गाथार्थः ।। अमुमेवार्थं समर्थयन्नाहनि. (९६६) तिन्नि सया तित्तीसा धनुत्ति भागो अ कासछब्माओ । जं परमोगाहोऽयं तो ते कोसस्स छब्माए॥ वृ-त्रीणि शतानि धनुषां त्रयस्त्रिंशदधिकानि धनुस्त्रिभागश्च क्रोशषड्भागो वर्तते 'यत्' यस्मात् परमावगाहोऽयं सिद्धानामिति वर्तते, ततस्ते क्रोशस्य षड्भाग इति गाथार्थः॥ अथ कथं पुनस्तत्र तेषामुपपातोऽवगाहना वेत्यत्रोच्यतेनि. (९६७) उत्ताणउव्व पासिल्लउव्व अहवा निसन्नओ चेव । जा जह करेइ कालं सो तह उववज्जए सिद्धो । वृ- उत्तानको वा पृष्ठतो वा अविनतादिस्थानतः पार्श्वस्थितो वा तिर्यस्थितो वा, अथवा निष्पन्न (षण्ण) कश्चैव इति प्रकटार्थं, किंबहुना?, यो 'यथा' यन प्रकारेणावस्थितः सन् करोति कालं स 'तथा' तेन प्रकारेणोपपद्यते सिद्ध इति गाथार्थः ॥ किमित्येतदेवम् ? इत्यत् आहनि. (९६८) इह भवभिन्नागारो कम्मवसाओ भवंतरे होइ । न य तं सिद्धस्स जओ तंमी तो सो तयागारो॥ वृ. इहभवभिन्नाकारः 'कर्मवशात् कर्मवशेन "भवान्तरे' स्वर्गादौ भवति, तदाकारभेदस्य कर्मनिबन्धनत्वात्, न च कर्म सिद्धस्य, यतः 'तस्मिन्' अपवर्गे ततोऽसौ सिद्धः 'तदाकारः' पूर्वभवाकार इति गाथार्थः ॥ तथा किं चनि. (९६९) जं संठाणं तु इहं भवं चयंतस्स चरमसमयंमि । आसी अ पएसघनं तं संठाणं तहिं तस्स ॥ वृ-यत् संस्थानमत्रैव 'भवं' संसारं मनुष्यभवं वा त्यजतः सतश्चरमसमये आसीत् प्रदेशघनं तदेव संस्थानं तत्र तस्य भवति, त्रिभागेन रन्ध्रापूरणादिति गाथार्थः ।। तथा चाऽऽहनि. (९७०) दीहं वा हस्सं वा जं चरमभवे हविज संठाणं । तत्तो तिभागहीना सिद्धाणोगाहणा भणिआ । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452