Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
आवश्यक मूलसूत्रम् - १- १/२
कुंभ व माणकत्ता कम्मं स एवं करणं च । नाणाकारगभावं लहइ जहेगो विवक्खा ||७|| जह वा नाणाणण्णी नाणी नियओवओगकालंमि । गोऽवि तरसभावो सामाइयकारगो चेवं ॥८॥” साम्प्रतं परिणामपक्षे सत्येकत्वानेकत्वापक्षयोरविरोधेन कर्तृकर्मकरणव्यवस्थामुपदर्शयन्नाहनि. (१०३६) एगत्ते जह मुट्ठि करेइ अत्यंतरे अत्यंतरे घडाईणि । दव्वत्यंतर भावे गुणस्स किं केन संबद्धं ! |
वृ- 'एकत्वे' कर्तृकर्मकरणाभेदे कर्तृकर्मकरणभावो दृष्टः, यथा मुष्टिं करोति, अत्र देवदत्तः कर्ता तद्धस्त एव कर्म तस्यैव च प्रयत्नविशेषः करणमिति, तथाऽर्थान्तरे-कर्तृकर्मकरणानां भेदे दृष्ट एव तद्भावः, तथा चाऽऽह - घटादीनि यथा करोतीति वर्तते, तत्रापि कुलालः कर्ता घटः कर्म दण्डादि करणमिति । इह च सामायिकं गुणो वर्तते, स च गुणिनः कथञ्चिदेव भिन्न इति । विपक्षे बाधामुपदर्शयति-द्रव्यात् सकाशाद्, गुणिन इत्यथः, एकान्तैनैवार्थान्तरभावे-भेदे सति, कस्य ? गुणस्य किं केन सम्बद्धामिति ? न किञ्चित् केनचित् सम्बद्धं, ज्ञानादीनामपि गुणत्वात्तेषामपि चाऽऽत्यादिगुणिभ्य एकान्तभिन्नत्वात्, संवेदनाभावत्ः सर्वव्यवस्थानुपपत्तेरिति भावना, एवमेकान्तेनानर्थान्तरभावेऽपि दोषा अभ्यूह्या इति गाथार्थः ॥
४१८
कण्ठतस्तावदुक्ते चालनाप्रत्यवस्थाने, अत एव चात्र पुनरुक्तदोपोऽपि नास्ति, अनुवादद्वारेण चालना- प्रत्यवस्थान- प्रवृत्तेरित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्र सर्वं सावद्यं योगमित्याद्यवशिष्यते, तदिह सर्वशब्दनिरूपणायाऽऽह
नि. (१०३७ ) नामं १ ठवणा २ दविए ३ आएसे ४ निरवसेस ५ चेव ।
तह सव्वधत्तसव्वं च ६ भावसव्वं च सत्तमयं ७ ॥
वृ- इह सर्वमिति कः शब्दार्थः ?, उच्यते, 'सृ गतौ' इत्यस्य औणादिको वप्रत्ययः सर्वशब्दो वा निपात्यते स्त्रियते स इति श्रियते वाऽनेनेति सर्वः, तदिदं च नामसर्व स्थापनासर्वं द्रव्यसर्वम् आदेशसर्वं निरवशेषसर्वं, तथा सर्वधत्तसर्वं च भावसर्वं च सप्तममिति समासार्थः ॥
व्यासार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनायत्य शेषभेदव्याचिख्यासया पुनराह
[भा. १८५] दविए चउरो भंगा सव्व १ मसव्वे अ २ दव्व १ देसे अ २ । आएस सव्वगामो नीसेसे सव्वगं दुविहं ॥
वृ- 'द्रव्य' इति द्रव्यसर्वे चत्वारो भङ्गा भवन्ति, तानेव सूचयन्नाह - 'सव्वमसव्वे अ दव्व देसे य'त्ति-अयमत्र भावार्थ:-इह यद्विवक्षितं द्रव्यमङ्गुल्यादि तत् कृत्नं परिपूर्णम् अनूनं स्वैरवयवैः सर्वमुच्यते, सकलमित्यथः, एवं तस्यैव द्रव्यस्य कश्चित्स्वावयवो देशः कृत्प्रतया - स्वावयवपरिपूर्णतया यदा सकलो विवक्ष्यते तदा देशोऽपि सर्वः, एवमुभयस्मिन् द्रव्ये तद्देशे च सर्वत्वं, तेयोरेव यथास्वमपरिपूर्णतायामसर्वत्वं ततश्चतुर्भङ्गी द्रव्यं सर्वं देशोऽपि सर्वः १ द्रव्यं सर्वं देशोऽसर्वंः २ देशः सर्वः द्रव्यमसर्वं ३ देशोऽसर्वः द्रव्यमप्यसर्वम् ४, अत्र यथाक्रममुदाहरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452