Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 419
________________ ४१६ आवश्यक मूलसूत्रम्-१-१/२ प्रसाधकत्वादिति भावना, 'तस्य' इति सामादि सम्बध्यते, 'आत्मनि प्रोतनम्' आत्मनि प्रवेशनम् इकमुच्यते, अत एवाऽऽह-'भावसामाई' भावसामादावेतान्युदाहरणानीति गाथार्थः ॥ सामायिकशब्दयोजना चैवं द्रष्टव्य-इहाऽत्मन्येव साम्न इकं निरुक्तनिपातनात् साम्रो नकारस्याऽऽय आदेशः, ततश्च सामायिकम, एवं समशब्दस्याऽऽयादेशः, समस्य वा आयः समायः स एव सामायिकमिति, एवमन्यत्रापि भावना कार्येति कृतं प्रसङ्गेन ॥ साम्प्रतं सामायिकपर्यायशब्दान् प्रतिपादयन्नाह-ग्रन्थकारः नि. (१०३३) समया सम्मत्त पसत्थ संति सुविहिअ सुहं अनिंदं च । अदुगुंछिअमरगरिहिअं अनवजमिमेऽवि एगट्ठा ।। वृ-निगदसिद्धैव । आह-अस्य निरुक्तावेव 'सामाइयं समइय' मित्यादिना पर्यायशब्दाः प्रतिपादिता एव तत् पुनः किमर्थमभिधानमिति ?, उच्यते, तत्र पर्यायशब्दमात्रता, इह तु वाक्यन्तरेणार्थनिरूपणमिति, एवं प्रतिशब्दमर्थाभेदतोऽनन्ता गमा अनन्ताः पर्याया इति चैकस्य सूत्रस्येति ज्ञापितं भवति, अथवाऽसम्मोहार्थं तत्रोक्तावप्यभिधानमदुष्टमेव इत्यत एवोक्तम्'इमेऽवि एगट्ठ'त्ति एतेऽपि तेऽपीत्यदोषः ।। साम्प्रतं कण्ठतः स्वयमेव चालनां प्रतिपादयन्नाहनि. (१०३४)को कार ओ?, करंतो किं कम्मं ?, जंतु कीरई तेन । किं कारयकरणाण य अन्नमणनं च ? अक्खेवो । वृ-इह 'करोमि भदन्त ! सामायिकम्' इत्यत्र कर्तृकर्मकरणव्यवस्था वक्तव्या, यथा करोमि राजन् ! घटमित्युक्ते कुलालः कर्ता घट एव कर्म दण्डादि करणमिति, एवमत्र कः कारकः कुलालसंस्थानीयः ? इत्यत आह-'करेंतो'त्ति तत् कुर्वन्नत्मैव, अथ किं कर्म घटादिसंस्थानीयम? इत्यत्राऽऽह-यत्तु क्रियते' निर्वय॑ते 'तेन' क; तच्च तद्गुणरूपं सामायिकमेव, तुशब्दः करणप्रश्ननिर्वचनसङ्ग्रहार्थः, यथा कर्म निर्दिष्टमेवं किं करणमित्युद्देशादिचतुर्विधमिति निर्वचनम्, एवं व्यवस्थिते सत्याह-'किं कारगकरणाण य' ति किं कारककरणयोः?, चशब्दात् कर्मणश्च परस्परतः कुलालघटदण्डादीनामिवान्यत्वम्, आहोश्विदनन्यत्वमेवेति ?, उभयथाऽपि दोषः, कथम् ?, अन्वत्वे सामायिकवतोऽपि तत्फलस्य मोक्षास्याभावः, तदन्यत्वाद्, मिथ्यादृष्टेरिव, अनन्यत्वे तु तस्योत्पत्तिविनाशाभ्यामात्मनोऽप्युत्पत्तिविनाशप्रसङ्ग इति, अनिष्टं चैतत्, तस्यानादिमत्त्वाभ्युपगमादित्याक्षेपश्चालनेति गाथार्थः । विजृम्भितं चात्र भाष्यकारेण __ "अन्नत्ते समभावा-भावाओ तप्पओयणाभावो । पावइ मिच्छस्स व से सम्मामिच्छाऽविसेसो य ॥१॥ अह व मई-भिन्नेणवि धनेन सधनोत्ति होइ ववएसो । सधनो य धनाभागी जह तह सामाइयस्सामी ॥२॥ तं न जओ जीवगुणो सामइयं तेन विफलता तस्स । अन्नत्तणओ जुत्ता परसामइयस्स वाऽफलता ॥३॥ जइ भिन्नं तब्भावेऽवि नो तओ तस्सभावरहिओत्ति । अन्नानिच्चिय निच्चं अंधो व समं पईवेणण ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452