Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 431
________________ आवश्यक मूलसूत्रम् - १- १/२ वृ- सचरित्रस्य सत्त्वस्य पश्चात्तापो निन्दा, स्वप्रत्यक्षं जुगुप्सेत्यर्थः, उक्तं च- 'आत्मसाक्षिकी निन्दा” 'तीए चउक्कनिक्खेवो'त्ति तस्यां तस्या वा नामादिभेदचतुष्को निक्षेप इति, तत्र नामस्थापने -अनाध्त्याऽऽह-'दव्वे चित्तकरसुया भावेसु बहू उदाहरण' त्ति द्रव्यनिन्दायां चित्रकरसुतोदाहरणं, सा जहा रन्ना परिणीया अप्पाणं निंदियाइयत्ति, भावनिन्दायां सुबहून्युदाहरणानि योगसङ्ग्रहेषु वक्ष्यन्ते, लक्षणं पुनरिदं ४२८ 'हा ! दुडु कयं हा ! दुद्बु कारियं दुट्टु अनुमयं इति । अंतो अंतो डज्झइ पच्छातावेण वेवंतो ||१||' त्ति गाथार्थः ॥ नि. (१०५०) गरहावि तहाजाईअमेव नवरं परप्पगासणया । दव्वंमि मरुअनायं भावेसु बहू उदाहरणा ॥ वृ- गर्हाऽपि 'तथाजातीयैवे 'ति निन्दाजातीयैव, नवरमेतावान् विशेषः- परप्रकाशनया गर्हा भवति, य गुरोः प्रत्यक्षं जुगुप्सा सा गहेंति, 'परसाक्षिकी गर्हे' ति वचनाद्; असावपि चतुर्विधैव, तत्र नामस्थापने अनाद्दत्यैवाह - 'दव्वंमि मरुअणायं भावेसु बहू उदाहरण' त्ति । तत्र द्रव्यगर्हायां मरुकोदाहरणं, तच्चेदम् - आनंदपुरे मरुओ ण्हुसाए समं संवासं काऊण उवज्झायस्स कहेइ जहा सुविए हुसाए समं संवासं गओमिति । भावगर्हाए साधू उदाहरणं'गंतूण गुरुसगासे काऊण य अंजलिं विनयमूलं । जह अप्पणो तह परे जाणावण एस गरहा उ || १ ||' त्ति -गाथार्थः ॥ तत्र निन्दामि गर्हामीत्यत्र गर्हा जुगुप्सोच्यते, तत्र किं जुगुप्से ?, 'आत्मानम्' अतीतसावद्योगकारिणमश्लाध्यम्, अथवाऽत्राणम् - अतीतसावद्ययोगत्राणविरहितं जुगुप्से, सामायिकेनाधुना त्राणमिति, अथवा 'अत सातत्यगमने' अतनमतीतं - सावद्ययोगं सततभवनप्रवृत्तं निवर्तयामीति, 'व्युत्सृजामी 'ति विविधार्थी विशेषार्थो वा विशब्दः उच्छब्दो मृशार्थः सृजामि त्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, अतीतसावद्ययोगं व्युत्सृजामीति वा, अवशब्दोऽधः शब्दस्यार्थे विशेषेणाधः सृजामीत्यर्थः नन्वेवं सावद्ययोगपरित्यागात् करोमि भदन्त ! सामायिकमिति सावद्ययोगनिवृत्तिरुच्यते, तस्य व्यवसृजामि शब्दप्रयोगे वैपरीत्यमापद्यते, तत्र, यस्मात् मांसादिविरमणक्रियानन्तरं व्यवसृजामीति प्रयुक्ते तद्विपक्षत्यागो मांसभक्षणनि वृत्तिरभिधीयते, एवं सामायिकानन्तरमपि प्रयुक्ते व्यवसृजामिशब्दे तद्विपक्षत्यागोऽवगम्यते, स च तद्विपक्षः सुगम एवेत्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद्, गमनिकामात्रप्रधानत्वात् प्रारम्भस्य ॥ साम्प्रतं व्युत्सर्गप्रतिपादनायाऽऽह ग्रन्थकारः 7 नि. (१०५१) दव्वविउस्सग्गे खलु पसन्नचंदो हवे उदाहरणं । पडिआगयसंवेगो भावंमिवि होइ सो चेव ॥ वृ- इह द्रव्यव्युत्सर्गः - गणोपधिशरीरान्नपानादिव्युत्सर्गः, अथवा द्रव्यव्युत्सर्गः आर्तध्यानादिध्यायिनः कायोत्सर्ग इति, अत एवाऽऽह द्रव्यव्युत्सर्गे खलु प्रसन्नचन्द्रो भवत्युदाहरणं, भावव्युत्सर्गस्त्वज्ञानादिपरित्यागः, अथवा धर्मशुकुध्यायिनः कायोत्सर्ग एव तथा चाऽऽहप्रत्यागतसंवेगो 'भावेऽपि' भावव्युत्सर्गेऽपि भवति स एव प्रसन्नचन्द्र उदाहरणमिति गाथाक्षरार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452