Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 418
________________ अध्ययनं-१ - [नि.१०२९] ४१५ आवस्सयंपि निच्चं गुरुपामूलंमि देसियं होइ । वीसुपि हि संवसओ कारणओ जणइ सेजाए ॥४॥ एवं चिय सव्वावस्सयाइ आपुच्छिऊण कज्जाई । जाणावियमामंतणवयणाओ जेण सव्वेसि ॥५॥ सामाइयमाईयं भदंतसद्दो य जं तयाईए । तेणाणुवत्तइ तओ करेमि भंतेत्ति सव्वेसु ।।६।। किच्चाकिच्चं गुरुवो विदंति विणयपडिवत्तिहेउं च । ऊसासाइ पमोत्तं तयणापुच्छाय पडिसिद्धं ॥७॥ गुरुविरहमिवि ठवणागुरूवि सेवोवदंसणत्थं च । जिनविरहमिऽवि जिनबिंबसेवणामंतणं सफलं ॥८॥ रनो व परोक्खस्सवि जह सेवा मंतदेवयाए वा । तह चेव परोक्खस्सवि गुरुणो सेवा विनयहेउं ॥९॥" इत्यादि, कृतं विस्तरेण ।। साम्प्रतं सामायिकद्वारव्याचिख्यासयाऽऽहनि. (१०३०)सामं १ समं च २ सम्मं ३ इग ४ मवि सामाइअस्स एगट्ठा । नामं ठवणा दविए भावमि अतेसि निक्खेवो ।। नि. (१०३१)महुरपरिणाम सामं १ समं तुला २ संम खीरखंडजुई ३ । दोरे हारस्स चिई इग ४ मेआई तु दव्वंमि ॥ वृ. इह सामं समं च सम्यक् ‘इगमवि' देशीपदं क्वापि प्रदेशार्थे वर्तते, सम्पूर्णशब्दावयवमेवाधिकृत्याऽऽह-सामायिकस्यैकार्थिकानि । अमीषां निक्षेपमुपदर्शयन्नाह-नामस्थानपनाद्रव्येषु भावे च नामादिविषय इत्यर्थः, “तेषां' सामप्रभृतीनां निक्षेपः, कार्य इति गम्यते, स चायंनामसाम स्थापनासाम द्रव्यसाम भावसाम च, एवं समसम्यक्पदयोरपि द्रष्टव्यः । तत्र नामस्थापने क्षुण्णे एव, द्रव्यसामप्रभृतींश्च प्रतिपादयन्नाह_ 'महुरे' त्यादि,-इहौघतो मधुरपरिणामं द्रव्य-शर्करादि द्रव्यसाम समं 'तुला' इति भूतार्थालोचनायां समं तुलाद्रव्यं, सम्यक् क्षीरखण्डयुक्तिः ' क्षीरखण्डयोजनं द्रव्यसम्यगिति, तथा 'दोरे' इति सूत्रदवरके मौक्तिकान्येवाधिकृत्य भाविपर्यायापेक्षया 'हारस्य' मुक्ताकलापस्य चयनं चितिः-प्रवेशेनं द्रव्येकम्, अत एवाह-'एयाहं तु दव्बंमित्ति एतान्युदाहरणानि द्रव्यविषयाणीति गाथाद्वयार्थः ।। साम्प्रतं भावसामादि प्रतिपादयन्नाहनि. (१०३२) आओवमाइ परदुक्खमकरणं १ रागदोसमज्झत्थं । . नाणाइतिगं ३ तस्साइ पोअणं ४ भावसामाई ॥ वृ- आत्मोपमया-आत्मोपमानेन परदुःखाकरणं भावसामेति गम्यते, इह चानुस्वारोऽलाक्षणिकः, एतदुक्तं भवति-आत्मनव परदुःखाकरणपरिणामो भावसाम, तथा 'रागद्वेषमाध्यस्थ्यम्' अनासेवनया रागद्वेषमध्यवर्तित्वं समं, सर्वत्राऽऽत्मनस्तुल्यरूपेण वर्तनमित्यर्थः, तथा ज्ञानादित्रयमेकत्र सम्यगिति गम्यते, तथाहि-ज्ञानदर्शनचारित्रयोजनं सम्यगेव, मोक्षJain Education International www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452