Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-१ - [नि.१०२७]
४१३
द्रव्यगुणपर्यायैः अनन्तगमसहितैरिति, एवं गुरुणा समादिष्टेऽभिव्याहारे शिष्याभिव्याहारःब्रवीति शिष्यः-उद्दिष्टमिदं मम, इच्छाम्यनुशासनं क्रियमाणं पूज्यैरिति, एवमभिव्याहारद्वारमष्टमं नीतिविशेषैर्नयैर्गतमिति गाथार्थः ॥ व्याख्याता प्रतिद्वारगाथा, साम्प्रतमधिकृतमूलद्वारगाथायामेव करणं कतिविधमिति व्याचिख्यासुराह- . [भा.१८३] उद्देस १ समुद्देसे २ वायण ३ मणुजाणणं च ४ आयरिए ।
सीसम्मि उद्दिसिजंतमाइ एअंतु जं कइहा ॥ -इह गुरुशिष्ययोः सामायिकक्रियाव्यापारणं करणं, तच्चतुर्द्धा-'उद्देस समुद्देसे ति उद्देशकरणं समुद्देशकरणं 'वायणमनुजाननंच'त्ति वाचनाकरणमनुज्ञाकरणं च, छन्दोभङ्ग-भयादिह वाचनाकरणमत्रोपन्यस्तम्, अन्यथाऽमुना क्रमेण इह-उद्देशो वाचना समुद्देशेऽनुज्ञा चेति गुरोर्व्यापारः, 'आयरिए'त्ति गुराविदं करणं गुरुविषयमियः, 'सीसम्मि उद्दिसिजंतमाइ' शिष्ये-शिष्यविषयम् उद्दिश्यमानादि-उद्दिश्यमानकरणं वाच्यमानकरणं समुद्दिश्यमानकरणम् अनुज्ञाय-मानकरणं च, ‘एयं तुजं कइह' त्ति एतदेव चतुर्विधं तद् यदुक्तं कतिविधमिति गाथार्थः ॥ आह-पूर्वमनेकविधं नामादिकरणमभिहितमेव, इह पुनः किमिति प्रश्न ?, उच्यते, तत् पूर्वगृहीतस्य करणमनेकविधमुक्तम्, इह पुनरस्मिन् गुरुशिष्यदानग्रहणकाले चतुर्विधं करणमिति, पूर्वं वा करणमविशेषेणोक्तम्, इह गुरुशिष्यक्रियाविशेषाद् विशेषितमिति न पुनरुक्तम्, अथवाऽयमेव करणस्यावसरः, पूर्वत्रानेकान्तद्योतनार्थं विन्यासः कृत इति विचित्रा सूत्रस्य कृतिरित्यलं विस्तरेण, द्वारं ६ । कथमिति द्वारमिदानी, तत्रेयं गाथा__ नि. (१०२८) कह सामाइअलंभे ? तस्सव्वविघाइदेसवाघाई ।
देसविघाईफड्डगअनंतवडीविसुद्धस्स ॥ नि. (१०२९) एवं ककारलंभो सेसाणवि एवमेव कमलंभो ।
एअंत तु भावकरणं करणे अ भए अ जं भणिअं॥ वृ- अस्या व्याख्या-'कथं' केन प्रकारेण सामायिकलाभ इति प्रश्नः, अस्योत्तरं-तस्यसामायिकस्य सर्वविघातीनि देशविधातीनि च स्पर्धकानि भवन्ति, इह सामायिकावरणं-ज्ञानावरणं दर्शनावरणं (मिथ्यात्व) मोहनीयं च, अमीषां द्विविधानि स्पर्द्धकानि-देशघातीनि सर्वघातीनि च, तत्र सर्वघातिषु सर्वेषूद्घातितेषु सत्सु देशघातिस्पर्द्धकानामप्यनन्तेषूद्घातितेष्वनन्तगुणवृद्ध्या प्रतिसमयं विशुद्धयमानः शुभशुभतरपरिणामो भावत्: ककारं लभते, तदनन्तगुणवृद्ध्यैव प्रतिसमयं विशुद्धमानः सन् रेफमित्येवं शेषाण्यपि, अत एवाऽऽह-देशघातिस्पर्द्धकानन्तवृद्ध्या विशुद्धस्य सतः॥ किं? -'एव' मित्यादि, -पर्वार्द्ध गतार्थम्, आह-उपक्रमद्वारेऽ-भिहितमेतत्क्षयोपशमात् जायते, पुनश्चोपोद्घातेऽभिहितमेतत्-कथं लभ्यत इति तत्रोक्रम्, इह किमर्थं प्रश्न इति पुनरुक्तता, उच्यते, त्रयमप्येतदपुनरुक्तं, कुतः ?, यस्मादुपक्रमे क्षयोपशमात् सामायिकं लभ्यत इत्युक्तम्, उपोद्घाते स एव क्षयोपशमस्तकत्कारणभूतः कथं लभ्यत इति प्रश्नः, इह पुनर्विशेषिततरः प्रश्नः-केषां पुनः कर्मणां स क्षयोपक्षम इति प्रत्यासन्नतरकारणप्रश्न इत्यलं प्रसङ्गेन । द्वारमेवोपसंहरन्नाह-एतदेव-अनन्तरोदितं सामायिक-करणं यत्तद्भावकरणं Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452