Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
आवश्यक मूलसूत्रम् - १- १/२
‘करणेय’त्ति उपन्यस्तद्वारपरामर्शः । 'भए य'त्ति भयमपि 'यद् भणितं' यदुक्तमिति गाथाद्वयार्थः । मूलद्वारगाथायां करणमित्येतद् द्वारं व्याख्यातम्, एतद्वयाख्यानाच्च सूत्रेऽपि करोमीत्ययमवयव इति, अधुना द्वितीयावयवव्याचिख्यासयाऽऽह
४१४
[ भा. १८४] होइ भयंतो भयअंतगो अ रयणा भयस्स छब्मेआ । सव्वंमि वन्निएऽनुकमेण अंतेवि छब्मेआ ॥
वृ- भवति भदन्त इत्यत्र 'भदि कल्याणे सुखे च' अर्थद्वये धातुः 'जूविशिभ्यां झचू' औणादिकप्रत्ययो द्दष्टः, तं दृष्ट्ा प्रकतिरुह्यते, भदि कल्याण इति अनुनासिकलोपश्चेति, तस्यैौणादिकविधानात्, ततश्च भदन्त इति भवति, भदन्तः- कल्याणः सुखश्चेत्यर्थः, प्राकतशैल्या वा भवति भवान्त इति, अत्र भवस्य - संसारस्यान्तस्तेनाऽऽचार्येण क्रियत इति भवान्तकरत्वाद् भवान्त इति, तथा - भयान्तश्चेत्यत्र भयं त्रासः तमाचार्यं प्राप्य भयस्यान्तो भवतीति भयान्तोगुरुः, भयस्य वाऽन्तको भयान्तक इति, तस्याऽऽमन्त्रणं, 'रचना' नामादिविन्यासलक्षणा, भयस्य 'षड्भेदाः' षट्प्रकाराः -नामस्थापनाद्रव्यक्षेत्रकालभावभेद भिन्नाः, तत्र पञ्च प्रकाराः प्रसिद्धाः, षष्ठं भावभयं सप्तधा - इहलोकभयं परलोकभयमादानभयमकस्माद्भयमश्लोकभयमाजीविकाभयं मरणभयं चेति, तत्रापीहलोके भयं स्वभवाद् यत् प्राप्यते परलोकभयं परभवात्, किञ्चनद्रव्यजातमादानं तस्य नाशहरणादिभ्यो भयम् आदानभय, यत्तु बाह्यनिमित्तमन्तरेणाहेतुकं भयम् अकस्माद् भवति तदाकस्मिकं, 'श्लोक श्लाघायां' श्लोकनं श्लोकः श्लाघा - प्रशंसा तद्विपर्ययोऽश्लोकस्तस्माद् भयमश्लोकभयम्, आजीविकाभयं दुर्जीविकाभयं, प्राणपरिणत्या - गभयं मरणभयमिति, एवं सर्वस्मिन् वर्णिते 'अनुक्रमेण' उक्तलक्षणेनान्तेऽपि षड् भेदा इति, तत्र 'अम गत्यादिषु' अमनमन्ताः- अवसानमित्यर्थः, अस्मिन्नपि षड् भेदाः, तद्यथा - नामान्तः स्थापनान्तः द्रव्यान्तः क्षेत्रान्तः कालान्तः भावान्तश्चेति, नामस्थापने क्षुण्णे, द्रव्यान्तो घटाद्यन्तः, क्षेत्रान्त ऊर्ध्वलोकादिक्षेत्रान्तः, कालान्तः समयाद्यन्तः, भावान्तः औदयिकादिभावान्तः ॥ [भा. १८५ ] एवं सव्वंमिऽवि वन्निअंमि इत्थं तु होइ अहिगारो । सत्तभयविष्पमुक्ते तहा भवंते भयंते अ ॥
वृ- 'एवम्' उक्तेन प्रकारेण 'सर्वस्मिन्' 'नेकभेदभिन्ने भयादौ वर्णिते सति 'अत्र तु ' प्रकृते भवत्यधिकारः प्रकृतयोजना सप्तभयविप्रमुक्तो यस्तेन, तथा भवान्तो यः भदन्तश्चेति, पश्चानुपूर्व्या ग्रन्थ इति गाथाद्वयार्थः ॥ मूलद्वारगाथायां व्याख्यातं भयान्तद्वारद्वयं, तद्व्याख्यानाच्च भदन्तभवान्तभयान्त इति गुर्वामन्त्रणार्थः सूत्रावयव इति, उक्तं च- भाष्यकारेण
'आमंतेइ करेमी भदंत ! सामाइयंति सीसोऽयं । आहामंतणवणं गुरुणो किंकारणमिणंति ||१|| ( भण्णइ) - गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निचं गुरुकुलवासी हवेज सीसो जओऽभिहियं ||२|| नाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥३॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452