________________
अध्ययनं-१ - [नि.१०२९]
४१५
आवस्सयंपि निच्चं गुरुपामूलंमि देसियं होइ । वीसुपि हि संवसओ कारणओ जणइ सेजाए ॥४॥
एवं चिय सव्वावस्सयाइ आपुच्छिऊण कज्जाई । जाणावियमामंतणवयणाओ जेण सव्वेसि ॥५॥
सामाइयमाईयं भदंतसद्दो य जं तयाईए । तेणाणुवत्तइ तओ करेमि भंतेत्ति सव्वेसु ।।६।। किच्चाकिच्चं गुरुवो विदंति विणयपडिवत्तिहेउं च । ऊसासाइ पमोत्तं तयणापुच्छाय पडिसिद्धं ॥७॥
गुरुविरहमिवि ठवणागुरूवि सेवोवदंसणत्थं च । जिनविरहमिऽवि जिनबिंबसेवणामंतणं सफलं ॥८॥
रनो व परोक्खस्सवि जह सेवा मंतदेवयाए वा ।
तह चेव परोक्खस्सवि गुरुणो सेवा विनयहेउं ॥९॥" इत्यादि, कृतं विस्तरेण ।। साम्प्रतं सामायिकद्वारव्याचिख्यासयाऽऽहनि. (१०३०)सामं १ समं च २ सम्मं ३ इग ४ मवि सामाइअस्स एगट्ठा ।
नामं ठवणा दविए भावमि अतेसि निक्खेवो ।। नि. (१०३१)महुरपरिणाम सामं १ समं तुला २ संम खीरखंडजुई ३ ।
दोरे हारस्स चिई इग ४ मेआई तु दव्वंमि ॥ वृ. इह सामं समं च सम्यक् ‘इगमवि' देशीपदं क्वापि प्रदेशार्थे वर्तते, सम्पूर्णशब्दावयवमेवाधिकृत्याऽऽह-सामायिकस्यैकार्थिकानि । अमीषां निक्षेपमुपदर्शयन्नाह-नामस्थानपनाद्रव्येषु भावे च नामादिविषय इत्यर्थः, “तेषां' सामप्रभृतीनां निक्षेपः, कार्य इति गम्यते, स चायंनामसाम स्थापनासाम द्रव्यसाम भावसाम च, एवं समसम्यक्पदयोरपि द्रष्टव्यः । तत्र नामस्थापने क्षुण्णे एव, द्रव्यसामप्रभृतींश्च प्रतिपादयन्नाह_ 'महुरे' त्यादि,-इहौघतो मधुरपरिणामं द्रव्य-शर्करादि द्रव्यसाम समं 'तुला' इति भूतार्थालोचनायां समं तुलाद्रव्यं, सम्यक् क्षीरखण्डयुक्तिः ' क्षीरखण्डयोजनं द्रव्यसम्यगिति, तथा 'दोरे' इति सूत्रदवरके मौक्तिकान्येवाधिकृत्य भाविपर्यायापेक्षया 'हारस्य' मुक्ताकलापस्य चयनं चितिः-प्रवेशेनं द्रव्येकम्, अत एवाह-'एयाहं तु दव्बंमित्ति एतान्युदाहरणानि द्रव्यविषयाणीति गाथाद्वयार्थः ।। साम्प्रतं भावसामादि प्रतिपादयन्नाहनि. (१०३२) आओवमाइ परदुक्खमकरणं १ रागदोसमज्झत्थं ।
. नाणाइतिगं ३ तस्साइ पोअणं ४ भावसामाई ॥ वृ- आत्मोपमया-आत्मोपमानेन परदुःखाकरणं भावसामेति गम्यते, इह चानुस्वारोऽलाक्षणिकः, एतदुक्तं भवति-आत्मनव परदुःखाकरणपरिणामो भावसाम, तथा 'रागद्वेषमाध्यस्थ्यम्' अनासेवनया रागद्वेषमध्यवर्तित्वं समं, सर्वत्राऽऽत्मनस्तुल्यरूपेण वर्तनमित्यर्थः, तथा ज्ञानादित्रयमेकत्र सम्यगिति गम्यते, तथाहि-ज्ञानदर्शनचारित्रयोजनं सम्यगेव, मोक्षJain Education International
www.jainelibrary.org
For Private & Personal Use Only