Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३९०
आवश्यक मूलसूत्रम्-१-१/१
वृ-'आचारः' पूर्ववत् ज्ञानादिपञ्चप्रकारः, तस्य आचारस्याऽऽचरणात् प्रभाषणाद्वा, वा शब्दाद् दर्शनाद्वा हेतोर्ये मुमुक्षुभिर्गुणैर्वा ज्ञानादिभिराचर्यन्ते ते भावाचार्या उच्यन्ते, एतच्चाआचरणाद्यनुपयोगतोऽपि सम्भवति यतः अत आह-'भावाचारोपयुक्ताश्च' भावार्थमा-चारो भावाचारः तदुपयुक्ताश्चेति गाथार्थः ॥आयरियनमोक्कारो ४ इत्यादिगाथाप्रपञ्चः सामान्येनार्हन्नमस्कारवदवसेयः विशेषस्तु सुगम एवेति ।।
उक्त आचार्यनमस्काराधिकारः ॥ साम्प्रतपाध्यायनमस्काराधिकारः, तत्रोपाध्याय इति कः शब्दार्थः ?, उच्यते-'इङ्अध्ययने' इत्यस्य इङश्चेति धञ् उपाध्यायः, उपेत्याधीयतेऽस्मात् साधवः सूत्रमित्युपाध्यायः, स च नामादिभेदाच्चतुर्विध इति, आह च - नि. (९९६) नामंठवणादविए भावंमि चउव्विहो उवज्झाओ।
दव्वे लोइअ सिप्पाइ निण्हगा वा इमे भावे ॥ वृ- इयं हि तत्त्वत आचार्यगाथातुल्ययोगक्षेमैवेति न प्रतन्यते, नवरं निह्नवा वेति यदुक्तं तत्र ते ह्यभिनिवेशदोषेणैकमपि पदार्थमन्यथा प्ररूपयन्तो मिथ्याध्ष्टय एव इत्यतो द्रव्योपाध्याया। नि. (९९७) बारसंगो जिनक्खाओ सज्झाओ कहिओ वुहेहिं ।
तं उवइसंति जम्हा उवझाया तेन वुच्चंति ।। वृ-द्वादशाङ्ग आचारादिभेदात् 'जिनाख्यातए:' अर्हप्रणीतः स्वाध्यायः वाचनानिबन्धनत्वात् इह सूत्रमेव गृह्यते, कथितः ‘बुधैः' गणधरादिभिः, य इति गम्यते, 'तं' स्वाध्यायमुपदिशन्ति वाचनारूपेण यस्मात् कारणादुपाध्यायस्तेनोच्यन्ते, उपेत्याधीयतेऽस्मादित्यन्वर्थोपपत्तेरिति गाथार्थः ॥ साम्प्रतमागमशैल्याऽक्षरार्थमधिकृत्योपाध्यायशब्दार्थं निरूपयन्नाहनि. (९९८) उत्ति उवओगकरणे ज्झत्ति अ झाणस्स होइ निद्देसे ।
एएण हुंति उज्झा एसो अन्नोऽवि पञ्जाओ। वृ- उ इत्येतदक्षरं उपयोगकरणे वर्तते, ज्झ इति चेदं ध्यानस्य भवति निर्देशे, ततश्च प्राकृतशैल्या एतेन कारणेन भवति उज्झा, उपयोगपुरस्सरं ध्यानकर्तार इत्यर्थः, एषोऽन्योऽपि पर्याय इति गाथार्थः ।। अथवानि. (९९९) उत्ति उवओगकरणे वत्तिअ पावपरिवजणे होइ ।
झत्ति अ झाणस्स कए उत्ति अ ओसक्कणा कम्मे ।। कृ-निगदसिद्धा, नवरमुपयोगपूर्वकं पापरिवर्जनतो ध्यानारोहणेन कर्माण्यपनयन्तीत्युपाध्याया इत्यक्षरार्थः, अक्षरार्थाभावे च पदार्थाभावप्रसङ्गात्पदस्य तत्समुदायरूपत्वादक्षरार्थः प्रतिपत्तव्य इत्यलं विस्तरेण ।। 'उवज्झायनमोक्कारो'४ इत्यादिगाथापूगः सामान्येनार्हन्नमस्कारवदवसेयः, विशेषस्तु सुगम एवेति ॥ उक्त उपाध्यायनमस्काराधिकारः॥
साम्प्रतं साधुनमस्काराधिकारः, तत्र 'राध साध संसिद्धा' वित्यस्य उणप्रत्ययान्तस्य साधुरिति भवति, अभिलषितमर्थ साधयतीति साधुः, स च नामादिभेदतः, तथा चाऽऽहनि. (१०००)नामं १ ठवणासाहू २ दव्वसाहू अ ३ भावसाहू अ४।
दव्वंमि लोइआई भावंमि अ संजओ साहू ।। वृ-वस्तुतो गतार्थेवेति न विवियते ।। द्रव्यसाधून् प्रतिपादयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452