Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 406
________________ अध्ययनं-१ - [नि.१०१६] ४०३ सो दिवि संघातयतो तइए व मयस्स्स तइयंमि ॥१॥ अविग्रहेण सङ्घातयतः द्वितीय-सङ्घातपरिशाटस्य समय एवान्तरमिति, 'उभयस्स चिरविउव्वियमयस्स देवे सविग्गह गयस्स । __ साडस्संतोमुहुत्तं तिण्हवि तरुकालमुक्कोसं ॥१॥ उक्ता वैक्रियशरीरमधिकृत्य सङ्घातादिवक्तव्यता, साम्प्रतमाहारकमधिकृत्यैनां प्रतिपादयन्नाह[भा.१७०] आहारे संघाओ परिसाडो असमयं समं होइ । उभयं जहन्नमुक्कोसयं च अंतोमुहुत्तं तु ॥ वृ-'आहार' इत्याहारकशरीरे सङ्घातः- प्राथमिको ग्रहः परिशाटश्च-पर्यन्ते मोक्षश्च, कालतः 'समयं कालविशेषं 'समं' तुल्यं भवति, सङ्घातोऽपि समयं शाटोऽपि समयमित्यर्थः, 'उभयं' सङ्घातपरिशाटोभयं गृह्यते, तज्जघन्यत् उत्कृष्टतश्चान्तर्मुहूर्तमेव भवतीति वर्तते, अन्तर्मुहूर्तमात्रकालावस्थायित्वादस्येति गर्भार्थः, उत्कृष्टात्तु जघन्यो लघुतरो वेदितव्य इति गाथार्थः॥ साम्प्रतमाहारकमेवाधिकृत्य सङ्घातताद्यन्तरमभिधातुकाम आह[भा.१७१] बंधनसाडुभयाणं जहन्नमंतोमुत्तमंतरणं । उक्कोसेण अवडं पुग्गलपरिअट्टदेसूनं ॥ वृ-बन्धनं-सङ्घातः शाटः-शाट एव उभयं सङ्घातशाटौ अमीषां बन्धनशाटोभयानां 'जघन्यं' सर्वस्तोकम् ‘अन्तर्मुहूर्तमन्तरणम्' अन्तर्मुहूर्तविरहकालः, सकृत्परित्यागानन्तरमन्तर्मुहूर्तेनैव तदारम्भादिति भावना, उत्कर्षः अर्द्धपुद्गलपरावर्तो देशोनोऽन्तरमिति, सम्यगद्दष्टिकालस्योत्कृष्टस्याप्येतावत्परिमाणत्वादिति गाथार्थः ।। उक्ताऽऽहारकशरीरमधिकृत्य सङ्घातादिवक्तव्यता, इदानीं तैजसकार्मणे अधिकृताऽऽह[भा.१७२] तेआकम्माणं पुण संताणाणाइओ न संघाओ। भव्वाण हुन्ज साडो सेलेसीचरमसमयंमि ।। वृ-तैजसकार्मणयोः पुनर्द्वयोः शरीरयोः सन्तानानादितः कारणात्, किं ?, न सङ्घातः-न तप्रथमतया ग्रहणं, प्रागेव सिद्धिप्रसङ्गात्, भव्यानां भवेत् शाटः केषाञ्चित्, कदेति ?, अत आह-शैलेशीचरसमये, स चैकसामायिक एवेति गाथार्थः ॥ [भा.१७३] उभयं अनाइनिहणं संतं भव्वाण हुन्ज केसिंचि । अंतरमनाइभावा अचंतविओगओ नेसि ।। वृ- 'उभयम्' इति सङ्घातपरिशाटोभयं प्रवाहमङ्गीकृत्य सामान्येन 'अनाद्यनिधनम्' अनाद्यपर्यवसितमित्यर्थः, 'सान्तं' सपर्यवसानमुभयं भव्यानां भवेत् केषाञ्चित्, न तु सर्वेषामिति, अन्तरमनादिभावादत्यन्तवियोगतश्च नानयोरिति गाथार्थः ।। अथवेदमन्यजीवप्रयोगनिर्वृत्तं चतुर्विधं करणमिति, आह च[भा.१७४]अहवा संघाओ ? साडणं चश्उभयं ३ तहो भयनिसेहो ४ । पड १ संख २ सगड २ थूणा ४ जीवपओगे जहासंखं ॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452