Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४१०
आवश्यक मूलसूत्रम् - १- १/२
एकभाग एव स्थितत्वात, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा पुनरुक्तदोषप्रसङ्गः, तथा चोक्तं"ननु भणियमुवग्धाए केसुत्ति इहं कओ पुणो पुच्छा ? | केत्ति तत्थ विसओ इह केसु ठियस्स तल्लाहो ॥१॥ तो हि सव्वद्दव्वावत्थाणं ? ननु जाइमेत्तवयणाओ । धम्माइसव्वदव्वाहारो सव्वो जनोऽवस्सं ||२||”
अथवोपोद्घाते सर्वद्रव्याणि विषयः सामायिकस्य, इह तान्येव सर्वद्रव्याणि सामायिकस्य हेतु:, श्रद्धेयज्ञेयक्रियानिबन्धनत्वात्, अथवाऽन्यथा पुनरुक्तपरिहारः कृताकृतादिगाथायां कृतमकृतं वा सामायिकं कार्य कर्म, कतु रीप्सिततमत्वात्, केन कृतमिति कर्तुः प्रश्नः केषु द्रव्येष्विति साधकतमकरणप्रश्नः, प्राकृते तृतीयाबहुवचनं सप्तमीबहुवचनतुल्यं तृतीयार्थे वा सप्तमीं कृत्वा निर्देशः, न चैतदपि स्वमनीषिकाव्याख्यानं, यतो भाष्यकारेणाप्यभ्यधायि“विसओवि उवग्घाए केसुत्तीहं स एवं उत्ति । सद्धेयणेयकिरियानिबंधनं जेण सामइयं || १ || '
( अहवा) कयाकयाइसु कज्जं केण व कयं च कत्तत्ति । केत्ति करणभावी ततियत्थे सत्तमी काउं ||२||”
इत्यलं प्रसङ्गेनेति गाथार्थ: ।। साम्प्रतं कदा कारकोडस्य भवतीत्येतन्नयैर्निरूपयन्नाह
[भा. १७१] काहु ? उदिट्ठे नेगम उवट्ठिए संगहो अ ववहारो । उज्जुसुओ अक्कमंते सहु समत्तंमि उवउत्तो ॥
वृकदाऽसौ सामायिकस्य कारको भवतीति प्रश्नः, इह नयैर्निर्वचनं 'उद्दिट्ठे नेगम' त्ति उद्दिष्टे सति नैगमो मन्यते, इयमत्र भावना-सामान्यग्राहिणो नैगमनस्योद्दिष्टमात्र एव सामायिके गुरुणा शिष्योऽनधीयानोऽपि तत्क्रियाऽननुष्ठायी सन् सामायिकस्य कर्ता वनगमनप्रस्थितप्रस्थककर्तृवत्, यस्मादुद्देशोऽपि तस्य कारणं सामायिकस्य तस्मिंश्च कारणे कार्योपचारः, 'उवट्ठिए संगहो य ववहारो' त्ति सङ्ग्रहो व्यवहारश्च मन्यते उपस्थितः सन् कारको भवतीति, इयमत्र भावना - इहोद्देशानन्तरं वाचनाप्रार्थनाय यदा वन्दनं दत्त्वोपस्थितो भवति तदा प्रत्यासन्नतरकारणत्वात् सङ्ग्रहव्यवहारयोः कारक इति, ऋजुसूत्र आक्रामन् कारको भवतीति मन्यते, एतदुक्तं भवति- उद्देशानन्तरं गुरुपादमूले वन्दित्वोपस्थितः - सामायिकं पठितुमारब्धः कारकः, वृद्धास्तु व्याचक्षते न पठन्नेव, किन्तु समाप्तेः कारक इति सामायिकक्रियां वा प्रतिपद्यमानस्तदुपयोगरहितोऽपि कारकः यस्मात् सामायिकार्थस्य सामायिकशब्दक्रिये असाधारणं कारणम्, असाधारण कारणेन च व्यपदेश इति, 'सहु समत्तंमि उवउत्तो' त्ति शब्दादयो नया मन्यन्ते - समाप्ते सत्युपयुक्त एव कारको भवति, त्रयाणां च शब्दादीनां नयानां शब्दक्रियावियुक्तोऽपि नया मन्यन्ते समाप्ते सत्युपयुक्त एव कारको भवति, सामायिकस्येति भावना, अयं गाथार्थः ॥ कदा कारक इति गतं, नयतो- नयप्रपञ्चत इत्यर्थः, अथवा कदा कारक इत्येतावद् द्वारं गतं, नयत इत्येतत्तु द्वारान्तरमेव, अतस्तदभिधित्सयाऽऽह[भा. १७८] आलोअणा य १ विणए २ खित्त ३ दिसाऽभिग्गहे अ ४ काले ५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452