________________
अध्ययनं-१ - [नि.१०१६]
४०३
सो दिवि संघातयतो तइए व मयस्स्स तइयंमि ॥१॥ अविग्रहेण सङ्घातयतः द्वितीय-सङ्घातपरिशाटस्य समय एवान्तरमिति,
'उभयस्स चिरविउव्वियमयस्स देवे सविग्गह गयस्स ।
__ साडस्संतोमुहुत्तं तिण्हवि तरुकालमुक्कोसं ॥१॥ उक्ता वैक्रियशरीरमधिकृत्य सङ्घातादिवक्तव्यता, साम्प्रतमाहारकमधिकृत्यैनां प्रतिपादयन्नाह[भा.१७०] आहारे संघाओ परिसाडो असमयं समं होइ ।
उभयं जहन्नमुक्कोसयं च अंतोमुहुत्तं तु ॥ वृ-'आहार' इत्याहारकशरीरे सङ्घातः- प्राथमिको ग्रहः परिशाटश्च-पर्यन्ते मोक्षश्च, कालतः 'समयं कालविशेषं 'समं' तुल्यं भवति, सङ्घातोऽपि समयं शाटोऽपि समयमित्यर्थः, 'उभयं' सङ्घातपरिशाटोभयं गृह्यते, तज्जघन्यत् उत्कृष्टतश्चान्तर्मुहूर्तमेव भवतीति वर्तते, अन्तर्मुहूर्तमात्रकालावस्थायित्वादस्येति गर्भार्थः, उत्कृष्टात्तु जघन्यो लघुतरो वेदितव्य इति गाथार्थः॥
साम्प्रतमाहारकमेवाधिकृत्य सङ्घातताद्यन्तरमभिधातुकाम आह[भा.१७१] बंधनसाडुभयाणं जहन्नमंतोमुत्तमंतरणं ।
उक्कोसेण अवडं पुग्गलपरिअट्टदेसूनं ॥ वृ-बन्धनं-सङ्घातः शाटः-शाट एव उभयं सङ्घातशाटौ अमीषां बन्धनशाटोभयानां 'जघन्यं' सर्वस्तोकम् ‘अन्तर्मुहूर्तमन्तरणम्' अन्तर्मुहूर्तविरहकालः, सकृत्परित्यागानन्तरमन्तर्मुहूर्तेनैव तदारम्भादिति भावना, उत्कर्षः अर्द्धपुद्गलपरावर्तो देशोनोऽन्तरमिति, सम्यगद्दष्टिकालस्योत्कृष्टस्याप्येतावत्परिमाणत्वादिति गाथार्थः ।। उक्ताऽऽहारकशरीरमधिकृत्य सङ्घातादिवक्तव्यता, इदानीं तैजसकार्मणे अधिकृताऽऽह[भा.१७२] तेआकम्माणं पुण संताणाणाइओ न संघाओ।
भव्वाण हुन्ज साडो सेलेसीचरमसमयंमि ।। वृ-तैजसकार्मणयोः पुनर्द्वयोः शरीरयोः सन्तानानादितः कारणात्, किं ?, न सङ्घातः-न तप्रथमतया ग्रहणं, प्रागेव सिद्धिप्रसङ्गात्, भव्यानां भवेत् शाटः केषाञ्चित्, कदेति ?, अत आह-शैलेशीचरसमये, स चैकसामायिक एवेति गाथार्थः ॥ [भा.१७३] उभयं अनाइनिहणं संतं भव्वाण हुन्ज केसिंचि ।
अंतरमनाइभावा अचंतविओगओ नेसि ।। वृ- 'उभयम्' इति सङ्घातपरिशाटोभयं प्रवाहमङ्गीकृत्य सामान्येन 'अनाद्यनिधनम्' अनाद्यपर्यवसितमित्यर्थः, 'सान्तं' सपर्यवसानमुभयं भव्यानां भवेत् केषाञ्चित्, न तु सर्वेषामिति, अन्तरमनादिभावादत्यन्तवियोगतश्च नानयोरिति गाथार्थः ।। अथवेदमन्यजीवप्रयोगनिर्वृत्तं चतुर्विधं करणमिति, आह च[भा.१७४]अहवा संघाओ ? साडणं चश्उभयं ३ तहो भयनिसेहो ४ ।
पड १ संख २ सगड २ थूणा ४ जीवपओगे जहासंखं ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org