________________
४०२
आवश्यक मूलसूत्रम्-१-१/२
[भा.१६६] अंतरमेगं समयं जहन्नमोरालगहणसाडस्स ।
सतिसमया उक्कोसं तित्तीसं सागरा हुंति ॥ वृ-'अन्तरम्' अन्तरालम्, एकं समयं 'जघन्यं' सर्वस्तोकम् औदारिकग्रहणशाटयोरिति, सत्रिसमयान्युत्कृष्टं त्रयस्त्रिंशत् सागरोपमाणि भवन्तीति गाथाक्षरार्थः ॥ भावार्थस्तु भाष्यगाथा-भ्यामवसेयः, ते चेमे -
"उभयंतरं जहन्नं समओ निव्विग्गहेण संघाए । परमं सतिसमयाइं तित्तीसं उदहिनामाइं ॥१॥ अनुभविउं देवाइसु तेत्तीसमिहागयस्स तइयंमी ।
समए संघायतओ नेयाई समयकुसलेहिं ॥२॥" उक्तौदारिकमधिकृत्य सर्वज्ञातादिवक्तव्यता, साम्प्रतं वैक्रियमधिकृत्योच्यते, तत्रेयं गाथा[भा.१६७] वेउव्विअसंघाओ जहन्नु समओ उ दुसमउक्कोसो ।
साडो पुण समयं चिअ विउव्वणाए विनिद्दिट्टो ।। वृ- अस्य व्याख्या-वैक्रियसङ्घातः कालतो 'जघन्यः' सर्वस्तोकः समय एव, तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्, अयं चौदारिकशरीरिणां वैक्रियलब्धिमतां विकुर्वणारम्भे देवानारकाणां च तत्प्रथमतया शरीरग्रहण इति, तथा द्विसमय' इति द्विसमयमान उत्कृष्टः वैक्रियसङ्घात इति वर्तते कालश्चेति गम्यते, स पुनरौदारिकशरीरिणो वैक्रियलब्धिमतस्तद्वि-कुर्वाणारम्भ एव वैक्रियसङ्घातं समयेन कृत्वाऽऽयुष्कक्षयात् मृतस्याविग्रहगत्या देवेषूपपद्यमानस्य वैक्रियमेव सङ्घातयतोऽवसेय इति भावना, शाटः पुनः समयमेव कालतः 'विकुर्वयाणां वैक्रियशरीरविषयो विनिर्दिष्ट इति गाथाक्षरार्थः ॥ अधुना सङ्घातपरिशाटकालमानमभिधित्सुराह[भा.१६८] संघायणपरिसाडो जहन्नओ एगसमइओ होइ ।
उक्कोसं तित्तीसं सायरणामाई समऊणा ॥ वृ- इह वैक्रियस्यैव सङ्घातपरिशाटः खलूभयरूपः कालतो जघन्य एकसामयिको भवति, उत्कृष्टस्त्रयस्त्रिंशत् सागरोपमाणि सागरनामानि समयोनानीति गाथाक्षरार्थः ।। भावार्थस्त्वयम्
उभयं जहन्न समओ सो पुण दुसमयविउव्वियमयस्स ।
परमतराई संघातसमयहीणाई तेत्तीसं ॥१॥ इदानीं वैक्रियमेवाधिकृत्य सङ्घाताधन्तरमभिधित्सुराह[भा.१६९] सव्वग्गहोभयाणं साडस्स य अंतरं विउव्विस्स ।
समओ अंतमुहत्तं उक्कोसं रुक्खकालीअं॥ वृ-इह ‘सर्वग्रहोभययोः' सङ्घातसंघातपरिशाटयोरित्यर्थः, शाटस्य च 'अन्तरं' विरहकालः 'वैक्रियस्य' वैक्रियशरीरसम्बन्धिनः समयः सङ्घातस्योभयस्य च, अन्तर्मुहूर्त शाटस्य, इदं तावज्जघन्यं त्रयाणामपि कथं ज्ञायत इति चेत् ? यत आह-उत्कृष्टं 'वृक्षकालिकं' वृक्षकालेनानन्तेन निर्वृत्तं वृक्षकालिकमिति गाथाक्षरार्थः ।। भावार्थस्त्वयंसंघातंतर समयो दुसमयविउव्वियमयस्स तइयंमि।
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only For Priva