________________
अध्ययनं -१ - [ नि. १०१६]
तह देहाभावं मिवि होजेहभवोऽपि को दोसो ? ||६|| आ० - जं चि विग्गहकालो देहाभावेवि तो परभवो सो । चउसमऽवि न देहो न विग्गहो जइ स का होइ ? ॥७॥" एवमौदारिके जघन्यतभेरदः सङ्घातपरिशाटकाल उक्तः । सङ्घातपरिशाटयोस्त्वेक एव (समयः), द्वितीयस्यासम्भवाद् अधुना सङ्घातादिविरहो जघन्येतरभेदोऽभिधीयते, तथा चाऽऽहविरहः कः ?, उच्यते, अन्तरकालः, औदारिके तस्य सङ्घातादेरयं भवतीति गाथार्थः ॥ [ भा. १६५ ] तिसमयहीनं खुड होइ भवं सव्वबंधसाडाणं । उक्कोस पुव्वकोडी समओ उअही अ तित्तीस ।।
वृ-त्रिसमयहीनं क्षुल्लं भवति, 'भवम्' इति भवग्रहणं, सर्वबन्धशाटयोरन्तरकाल इति, तत्र त्रिसमयहीनं सर्वबन्धस्य क्षुल्लं तु सम्पूर्ण सर्वशाटस्येति, उत्कृष्टः पूर्वकोटिसमयः, तथा 'उदधीनि च (धयश्च)' सागरोपमाणि च त्रयस्त्रिंशत् सर्वबन्धस्य, समयोनस्त्वयमेव शाटस्येति गाथाक्षरार्थः ।। भावार्थस्तु भाष्यगाथाभ्योऽवसेयस्ताश्चेमाः
"संघायंतरकालो जहन्नओ खुड्डुयं तिसमऊणं । दो विग्गम समया तइओ सणघायणासमओ ॥ १ ॥ तेहूणं खुड्डुभवं धरिउं परभवम विग्गहेणेव । गंतूण पढमसमए संघाययओ अ विन्नेओ || २ || उक्को तेत्तीसं समयाहियपुव्वोडिअहिआई । सो सागरोवमाई अविग्गहेणेह संघायं | ३ || काऊण पुव्वकोडिं धरिडं सुरजेट्ठमाउयं तत्तो । भोत्तूण इहं तइए समए संघाययंतस्स ||४|| '
इदं पुनः सर्वशाटान्तरं जघन्यं क्षुल्लकभवमानं, कथम् ?, इहानन्तरातीतभवचरमसमये कश्चिदौदारिकशरीरी सर्वशाटं कृत्वा वनस्पतिष्वागत्य सर्वजघन्यं क्षुल्लकभवग्रहणायुंष्कमनुपालय पर्यन्ते सर्वशादं करोति, ततश्च क्षुल्लकभवग्रहणमेव भवति, उत्कृष्टं तु त्रयहिंस्त्रशत् सारगोपमाणे पूर्वकोट्याऽधिकानि कथम् ?, इह कश्चित् संयतमनुष्य औदारिकसर्वशाटं कृत्वाऽनुत्तरसुरेषु त्रयस्त्रिंशत् सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसर्वसङ्घातं कृत्वा पूल्कोटयन्ते औदारिकसर्वशाटं करोतीति, उक्तं च भाष्यकारेण
“खुड्डागभवग्गहणं जहन्नमुक्कोसयं च तित्तीसं ।
तं सागरोवमाई संपुन्ना पुव्वकोडी उ ||१|| "
४०१
गुरवस्तु व्याचक्षते तदारम्भसमयस्य पूर्वभवशाटेनावरुद्धत्वात् समयहीनं क्षुल्लकभवग्रहणं जघन्यं शाटान्तरमिति, तथ च किलैवमक्षराणि नीयन्ते - त्रिसमयहीनं क्षुल्लकमित्येतदपि न्याय्यमेवास्माकं प्रतिभाति, किन्त्वतिगम्भीरधिया भाष्यकृता सह विरुध्यत इति गाथार्थः ॥ इदानीं सङ्घातपरिशाटान्तरमुभयरूपमप्यभिधित्सुराह
24 26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org