________________
४०४
आवश्यक मूलसूत्रम्-१-१/२
वृ-अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः, 'सङ्घात' इति सङ्घातकरणं, 'सातनं च' शातनकरणं च 'उभयं' सङ्घातशातनकरणं 'तथोभयनिषेध' इति सङ्घातपरिशाटशून्यम् । अमीषामेवोदाहरणानि दर्शयन्नाह-पटः शङ्ख शकटं स्थूणा, 'जीवप्रयोग' इति जीवप्रयोगकरणे तत्कायव्यापारमाश्रित्य यथासङ्ख्यमेतान्युदाहरणानि समवसेयानि, तथाहि-पटस्तन्तु-सङ्घातात्मकत्वात् सङ्घातकरणं शङ्खस्त्वेकान्तसाटकरणादेव शाटकरणं शकटं तक्षणकीलिकादियोगादुभयकरणं स्थूणा पुनरुव॑तिर्यक्करणयोगात् संघातशाटविरहादुभयशून्या इति गाथार्थः ॥ उक्तं जीवप्रयोगकरणम्, आह-जं जं निजीवाणं कीरइ जीवप्पओगओ तं तं' इत्यादिनाऽस्याजीवकरणतैव युक्तियुक्तेति, अत्रोच्यते, न, अभिप्रायापरिज्ञानाद्, इहादावेवाथवा-शब्दप्रयोगतः प्रकारान्तरमात्रप्रदर्शनार्थमेत दुक्तं, ततश्चात्र व्युत्पत्तिभेदमात्रमाश्रीयते, जीवप्रयोगात् करण जीवप्रयोगकरणमिति, ज्यायांश्चान्वर्थ इत्यलं प्रसङ्गेन ॥
उक्तं द्रव्यकरणं, साम्प्रतं क्षेत्रकरण-स्यावसरः, तत्रेयं नियुक्तिगाथानि. (१०१७) खित्तस्स नत्यि करणं आगासं जं अकित्तिमो भावो ।
वंजणपरिआवनं तहावि पुण उच्छुकरणाई॥ वृ- अस्या व्याख्या-इह 'क्षेत्रस्य' नभसः 'नास्ति करणं' निर्वृत्तिकारणाभावान्न विद्यते करणं मुख्यवृत्या 'आकाश' क्षेत्रं यद् यस्मात् 'अकृत्रिमो भावः' अकृतकः पदार्थः, अकृतकस्य च सतो नित्यत्वात् करणानुपपत्तिरिति भावः । आह-यद्येवं किमिति नियुक्तिकारेण निक्षपगाथयामुपन्यस्तमिति ?, अत्रोच्यते, व्यअनपर्यायापन्नं तथापि पुनरिक्षुकरणाद्यस्त्येवेति, इह व्यञ्जनशब्देन क्षेत्राभिव्यञ्जकत्वात् पुद्गलाः गृह्यन्ते, तत्सम्बन्धात् पर्यायः कथञ्चित् प्रागवस्थापरित्यागेनावस्थान्तरापत्तिरित्यर्थः, तमापनं पुनस्तथाऽपि यदा विवक्ष्यते तदा पर्यायो द्रव्यादनन्य इति पर्यायद्वारेण क्षेत्रकरण मस्तीति सभावार्थऽक्षरगमनिका ॥ उपचार-मात्रद्वेक्षुकरणादि, यथेाक्षेत्रकरणं शालिक्षेत्रकरणम्, अथवाऽऽदिशब्दाद् यत्र प्ररूप्यते क्रियते वेति गाथार्थः ।
उक्तं क्षेत्रकरणम्, इदानीं कालकरणस्यावसरः, तत्रेयं गाथानि. (१०१८) कालेवि नत्थि करणं तहावि पुण वंजणप्पमाणेणं ।
बवबालवाइकरणेहिंऽनेगहा होइ ववहारो॥ वृ-अस्या व्याख्या-कलनं कालः कलासमूहो वा कालस्तस्मिन् कालेऽपि, न केवलं क्षेत्रस्य, किं ?, नास्ति करणं-न विद्यते कृतिः, कुतः?-तस्य वर्तनादिरूपत्वाद्, वर्तनादीनां च स्वयमेव भावात्, समयाद्यपेक्षायां च परोपादानत्वादिति भावना, आह-यद्येवं किमिति नियुक्तिकृतोपन्यस्तमिति?, अत्रोच्यते, तथाऽपि पुनर्व्यञ्जनप्रमाणेन भवतीति शेषः, इह व्यञ्जनशब्देन विवक्षया वर्तनाघभिव्यञ्जकत्वाद् द्रव्याणि गृह्यन्ते, तप्रमाणेन-तन्नीत्या तबलेन भवतीति, तथाहिवर्तनादयस्तद्वतां कथञ्चिदभिन्ना एव, ततश्च तद्वतां करणे तेषामपि करणमेवेति भावना, समयादिकालापेक्षायामपि व्यवहारनयादस्ति कालकरणमिति, आह च-बवबालवादिकरणैरनेकधा भवति व्यवहार इति, अत्रादिशब्दात् कौलवादीनि गृह्यन्ते, उक्तं च
'बवं च बालवं चेव, कोलवं थीविलोयणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org