Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 400
________________ अध्ययनं-१ - [नि.१०१४] ३९७ न समनुजानामि-नानुमन्येऽहमिति, तस्येत्यधिकृतो योगः संबध्यते, भयान्तं इति पूर्ववत्, __ प्रतिक्रमामि-निवर्तेऽहमित्युक्तं भवति, निन्दामीति जुगुप्से इत्यर्थः, गर्हामीति च स एवार्थः, किन्त्वात्मसाक्षिकी निन्दा गुरुसाक्षिकी गति, किं जगुप्से ?-'आत्मानम्' अतीतसावद्ययोगकारिणं, 'व्युत्सृजामी'थि विविधार्थो विशेषार्थे वा विशब्दः उच्छब्दो भृगार्थः सृजामित्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, एवं तावत्पदार्थपदविग्रही यथासम्भवमुक्तौ, अधुना चालनाप्रत्यवस्थाने वक्तव्ये, तदत्रान्तरे सूत्रस्पर्शनियुक्तिरुच्यते, स्वस्थानत्वात्, आह च नियुक्तिकारःनि. (१०१५) अक्खलिअसंहिआई वक्खाणचउक्कए दरिसिअंमि । सुत्तप्फासिअनिऋत्तिवित्थरत्थो इमो होइ ॥ वृ-'अस्खलिआइ'त्ति अस्खलितादौ सूत्र उच्चरिते, तथा संहितादौ व्याख्यानचतुष्टये दर्शिते सति, किं ? -सूत्रस्पर्शनियुक्तिविस्तरार्थः अयं भवतीति गाथार्थः । नि. (१०१६)करणे १ भए अ २ अंते ३ सामाइअ ४ सव्वए अ५ वजे अ६। . जोगे ७ पच्चक्खाणे ८ जावजीवाइ ९तिविहेणं १०॥ वृ-करणं भयं च अन्तः सामायिकं सर्वच वर्जं च योगः प्रत्याख्यानं यावजीवया त्रिविधेनेति पदानि, पदार्थं तु भाष्यगाथाभिय॑क्षेण प्रतिपादयिष्यतीति गाथासमासार्थः ॥ साम्प्रतं करणनिक्षेपं प्रदर्शयन्नाह[भा.१५२]नामं १ ठवणा २ दविए ३ खित्ते ४ काले ५ तहेव भावे अ६ । एसो खलु करणस्सा निक्खेवो छव्विहो होइ ।। वृ-अक्षरगतं पदार्थमात्रमधिकृत्य निगदसिद्धा, साम्प्रतं द्रव्यकरणप्रतिपादनायाऽऽह[भा.१५३] जाणगभविअइरित्तं सन्ना नोसन्नओ भवे करणं । सन्ना कडकरणाई नोसन्ना वीससपओगे ॥ वृ-इह यथासम्भवं द्रव्यस्य द्रव्येण द्रव्ये वा करणं द्रव्यकरणं, तच्च नोआगमतो ज्ञभव्यातिरिक्तं संज्ञा नोसंज्ञातो भवेत् करणं, एतदुक्तं भवति-ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यकरणं द्विधा-संज्ञाकरणं नोसंज्ञाकरणं च, तत्र संज्ञाकरणं कटकरणादि, आदिशब्दात् पेलुकरणादिपरिग्रहः, पेलुशब्देन रुतपूणिकोच्यते, अयमत्र भावार्थः-कटनिवर्तकमयोमयं चित्रसंस्थानं पालकादि तथा रुतपूणिकानिर्वर्तकं शलाकाशल्यकाङ्गरुहादि संज्ञाद्रव्यकरणमन्वर्थोपपत्तेरिति, आह-इदं नामकरणमेव पर्यायमात्रतः संज्ञाकरणमिति न कश्चिद्विशेष इति, उच्यते, इह नामकरणमभिधानमात्रं गृह्यते, संज्ञाकरणं त्वन्वर्थतः संज्ञायाः करणं २, द्रव्यस्य संज्ञया निर्दिश्यमानत्वात, तथा च भाष्यकारेणाप्येतदेवाभ्यधायि “सन्ना नामंति मई तं नो नाम जमभिधाणं ॥१॥ जं वा तदत्थविकले कीरइ दव्वं तु दवणपरिणामं । पेलुक्करणाइ न हि तं तयस्थसुण्णं न वा सद्दो ॥२॥ जइ न तदत्थविहीणं तो किं दव्वकरणं? जओ तेणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452