Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४००
आवश्यक मूलसूत्रम्-१-१/२ संघायणपरिसाडण खुड्डागभवं तिसमऊणं ॥ वृ- 'सङ्घातम्' इति सर्वसङ्घातकरणमेकसमयं भवति, एकान्तादानस्यैकसामयिकत्वात्, घृतपूपहष्टान्तोऽत्र, यथा-घृतपूर्णप्रतप्तायां तापिकायां सम्पानकपक्षेपात् स पूपः प्रथमसमय एवैकान्तेन नेहपुद्गलानां ग्रहणमेव करोति, न त्यागम्, अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, तथाविधसामर्थ्ययुक्तत्वात्; पुद्गलानां च सङ्घातभेदधर्मत्वात्, एवं जीवोऽपि तप्रथमतयोत्पद्यमानः सन्नाद्यसमये औदारिकशरीरप्रयोग्याणां द्रव्याणां ग्रहणमेव करोति, न तु मुञ्चति, अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, युक्तिः पूर्ववत्, अतः सङ्घातमेकसमयमिति स्थितं, तथैव परिशाटन' मिति परिशाटनाकरणमेकसमयमिति वर्तते, सर्वपरिशाटस्याप्येकसामयिकत्वादेवेति, 'औदारिक' इत्यौदारिकशरीरे ‘संघायणपरिसाडण'त्ति सङ्घातनपरिशाटनकरणं तु क्षुल्लकभवग्रहणं त्रिसमयोनं, तत् पुनरेवं भावनीयं-जघन्यकालर प्रतिपादयितुमभिप्रेतत्वात् विग्रहेणोत्पाद्यते, ततश्च द्वौ विग्रहसमयावेकः सङ्घातसमय इति, तैयूंनं, तथा चोक्तम्
'दो विग्गहमि समया समयो संघायणाए तेहूणं ।
खुड्डागभवग्गहणं सव्वजहन्नो ठिई कालो ॥१॥ इह च सर्वजघन्यमायुष्कं क्षुल्लकभवग्रहणं प्राणापानकालस्यैकस्य सप्तदशभाग इति, उक्तं च भाष्यकारेण-खुड्डागभवग्गहणा सत्तरस हवंति आणपाचूंमि'त्ति गाथार्थः ॥ [भा.१६४] एयं जहन्नमुक्कोसयं तु पलिअत्तिमं तु समऊणं ।
विरहो अंतरकालो ओराले तस्सिमो होइ । वृ- इदं जघन्यं सङ्घातादिकालमानम् उत्कष्टं तु सङ्घातपरिशाटकरणकालम्: नमौदारिकमाश्रित्य पल्योपमन्नितयमेव समयोनम्, इयमत्र भावना-इहोत्कृष्टकालस्य प्रतिपाद्यत्वादयमविग्रहसमापन्नः इह भवात् परभवं गच्छनिहभवशरीरशाटं कृत्वा परभवायुषस्त्रिपल्योपमकालस्य प्रथमसमये शरीरसङ्घातं करोति, ततो द्वितीयसमयादारभ्य सङ्घातपरिशाटोभयकाल इति, तेन सङ्घातनासमयेन ऊनं पल्योपमत्रयमिति, उक्तं च
_ "उक्कोसो समऊणो जो सो संघातणासमयहीणो। चोयग-किह न दुसमयविहूणो साडणसमएऽवणीयंमि ?॥१॥
भण्णइ भवचरिमंमिवि समये संघातसाडणा चेव ।
परभवपढमे साडणमओ तदूणो न कालोत्ति ॥२॥ चो०-जइ परपढमे साडो निविग्गहदो य तंमि संघातो। ननु सव्वसाडसंघातणाओ समए विरुद्धाओ ॥३॥ आ०-जम्हा विगच्छमाणं विगयं उप्पज्जमाणमुप्पन्न । तो परभवाइसमए मोक्खादानानमविरोहो ॥४॥
चुइसमए णेहभवो इहदेहविमोक्खओ जहातीए । जइ परभवोवि न तहिं तो सो को होउ संसारी ? ||५|| ननु जह विग्गहकाले देहाभावेऽवि परभवग्गहणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452