Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं -१ - [नि. १०१६ ]
[भा. १५७] जं जं निजीवाणं कीरइ जीवप्पओगओ तं तं । वनाइ रुवकम्माइ वावि अज्जीवकरणं तु ॥
वृ- यद् यन्निर्जीवानां पदार्थानां क्रियते निर्वर्त्यते 'जीवप्रयोगतो' जीवप्रयोगेण तत्तद्वर्णादि कुसुम्भादेः रूपकर्मादि वा कुट्टिमादा अजीवविषयत्वात्तदजीवकरणमिति गाथार्थः ॥ [भा. १५८] जीवओगकरणं दुविहं भूलप्पओगकरणं च । उत्तरपओगकरणं पंच सरीराई पढमंमि ॥
वृ- जीवप्रयोगकरणं 'द्विविधं' द्विप्रकारं मूलप्रयोगकरणमुत्तरप्रयोगकरणं च, चशब्दस्य व्यवहित उपन्यासः, पञ्च शरीराणि 'प्रथमं मूलप्रयोगकरणमिति गाथार्थः ॥ ओरालियाइआई ओहेणिअरं पओगओ जमिह । निष्फन्ना निष्फज्जइ आइल्लाणं च तं तिण्हं ॥
[भा. १५९]
३९९
वृ- औदारिकादीनि, आदिशब्दाद्वैक्रियाहारकतैजसकार्मणशरीरपरिग्रहः, 'ओघेन' इति सामान्येन, 'इतरत्' उत्तरप्रयोगकरणं गृह्यते, तल्लक्षणं चेदं 'प्रयोगतः प्रयोगेणैव यद् 'इह' लोके निष्पन्नाः, मूलप्रयोगेण निष्पद्यत इति 'तद्' उत्तरकरणं, आद्यानां च तत् त्रयाणाम्, एतदुक्तं भवति पञ्चानामौदारिकादिशरीराणामाद्यं सङ्घातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं तूत्तरकरणमौदारिकादीनां त्रयाणां, न तु तैजसकार्मणयोः, तदसम्भवादिति गाथार्थः । तत्रैौदारिकादीनामष्टाङ्गानि मूलकरणानि तानि चामूनि -
[ भा. १६०] सीस १ सुरो २ अर ३ पिट्ठी ४ दो बाहू ६ ऊरुआ य ८ अड़ंगा । अंगुलिमाइ उवंगा अंगोवंगाणि सेसाणि ॥
वृ- निगदसिद्धा, नवरमङ्गोपाङ्गानि 'शेषाणि' करपादादीनि गृह्यन्ते ॥ किञ्च - [भा. १६१] केसाईउवरयणं उरालविउव्वि उत्तरं करणं । ओरालिए विसेसो कन्नाइविनट्ठसंठवणं ॥
वृ- 'केशाद्युपरचनं' केशादिनिर्माणसंस्कारौ, आदिशब्दान्नखदन्ततद्रागादिपरिग्रहः औदारिकवैक्रिययोरुत्तरकरणं, यथासम्भवं चे योजना कार्येति, तथौदारिके विशेष उत्तरकरणे इति, कर्णादिविनष्टसंस्थापनं, नेदं वैक्रियादी, विनाशाभावाद्, विनष्टस्य च सर्वथा विनाशेन संस्थापनाभावादिति गाथार्थः ॥ इत्थंभूतमुत्तरकरणमाहारके नास्ति, गमनागमनादि तु भवति, अथवेदमन्याध्क् त्रिविधं करणं, तद्यथा-सङ्घातकरणं परिशाटकरणं सङ्घातपरिशाटिकरणं च, तत्राऽऽद्यानां शरीराणां तैजसकार्मणरहितानां त्रिविधमप्यस्ति, द्वयोस्तु चरमद्वयमेवेति, आह
च
[भा. १६२]
आइल्लाणं तिहं संघाओ साडणं तदुभयं च । ते आकम्मे संघायसाडणं साडणं वावि ।।
वृ- वस्तुतो व्याख्यातैवेति न व्याख्यायते । साम्प्रतमौदारिकमधिकृत्य सङ्घातादिकालमानमभिधित्सुराह
[भा. १६३]
Jain Education International
संघायमेगसमयं तहेव परिसाडणं उरालंमि ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452