Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 394
________________ अध्ययनं-१ - [नि.१००१] ३९१ नि. (१००१) घडपडरहमाईणिं उ साहता हुंति दव्वसाहुत्ति । अहवावि दव्वभूआ ते हुंती दव्वसाहुत्ति ॥ वृ-निगदसिद्धा, नवरमथवाऽपि 'द्रव्यभूता' इति भावपर्यायशून्याः ॥ भावसाधून् प्रतिपादयन्नाहनि. (१००२) निव्वाणसाहए जोए, जम्हा साहति साहुणो । __समा य सव्वभूएसु, तम्हा ते भावसाहुणो॥ वृ-निर्वाणसाधकान् ‘योगान् सम्यग्दर्शनादिप्रधानव्यापारान् यस्मात् साधयन्ति साधवः विहितानुष्ठानपरत्वात्, तथा समाश्च सर्वभूतेष्विति योगप्राधान्यख्यापनार्थमेतत्, तस्मात्ते भावसाधव इति गाथार्थः ॥ नि. (१००३) किं पिच्छसि साहूणं तवं व निअमं व संजमगुणं वा । तो वंदसि साहूणं ? एअं मे पुच्छिओ साह ।। वृ-निगदसिद्धा। नि. (१००४) विसयसुहनिअत्ताणं विसुद्धचारित्तनिअमजुत्ताणं । तच्चगुणसाहयाणं सदायकिचुजयाणं नमो ॥ वृ-निगदसिद्धैव । नि. (१००५) असहाइ सहायत्तं करंति मे संजमं करितस्स । एएण कारणेणं नमामिऽहं सव्वसाहूणं ॥ वृ- परमार्थसाधनप्रवृत्तौ सत्यां जगत्यसहाये सति प्राकृतशैल्या वाऽसहायस्य सहायत्वं कुर्वन्ति मम संयमं कुर्वतः सतः, अनेन प्रकारेण नमाम्यहं सर्वसाधुभ्य इति गाथार्थः ।। “साहूण नमोक्कारो ४ इत्यादिगाथाविस्तरः सामान्येनार्हन्नमस्कारवदवसेयः, विशेषस्तु सुखोनेय इति कृतं प्रसङ्गेन । उक्तं वस्तुद्वारम्, अधुनाऽऽक्षेपद्वारावयवार्थ-प्रचिकटिषयेदमाह- (इतः प्राक् "एसो पंच नमुक्कारो" इत्यादि पुस्तकादर्शेषु वर्तते, न च वृत्तौव्याख्यातः) नि. (१००६) नवि संखेवो व वित्थारु संखेवो दुविहु सिद्धसाहूणं । वित्थारओऽनेगविहो पंचविहो न जुजइ तम्हा ।। वृ- इहास्या गाथाया अंशकक्रमनियमाच्छन्दोविचितौ लक्षणमनेन पाठेन विरुध्यते 'न संखेवो' इत्यादिना, यत इहाद्य एव पञ्चमात्रोऽशकः इत्यतोऽपपाठोऽयमिति, ततश्चापिशब्द एवात्र विद्यमानार्थो द्रष्टव्यः, 'नवि संखेवो' इत्यादि, इह किल सूत्रं संक्षेपविस्तरद्वयमतीत्य न वर्तते, तत्र संक्षेपवत् सामायिकसूत्रं, विस्तरवच्चतुर्दश पूर्वाणि, इदं पुनर्नमस्कारसूत्रमुभयातीतं, यतोऽत्र न संक्षेपो नापि विस्तर इत्यपिशब्दस्य व्यवहितः सम्बन्धः, “संक्षेपो द्विविध' इति यद्ययं संक्षेपः स्यात् ततस्तस्मिन् सति द्विविध इति-द्विविध एव नमस्कारो भवेत्, सिद्धसाधुभ्यामिति, कथं ?, परिनिर्वृतार्हदादीनां सिद्धशब्देन ग्रहणात् संसारिणां च साधुशब्देनेति, तथा च नैते संसारिणः सर्व एव साधुत्वमतिलच्य वर्तन्त इति, तद्भावे शेषगणाभावात्, अतस्तनमस्कार एवेतरनमस्कारभावात्, अथायं विस्तरः, इत्येतदप्यचारु, यस्माद् विस्तरतोऽनेकविधः प्राप्नोति, तथा च-ऋषभाजितसम्भवाभिनन्दसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभेत्याद Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452