Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं -१ - [ नि. ९८७]
भवार्णवपारगमनात् 'परम्परागता इति च' पुण्यबीजसम्यक्त्वज्ञानचरणक्रमप्रतिपत्त्युपायमुक्तत्वात् परम्परया गताः परम्परागता उच्यन्ते, उन्मुक्तकर्मकवचाः सकलकर्मवियुक्तत्वात्, तथा अजरा वयसोऽभावात्, अमरा आयुषोऽभावात्, असङ्गाश्च सकलकेशाभावादिति गाथार्थः ।। साम्प्रतमुपसंहरन्नाह
नि. (९८८) निच्छिन्नसव्वदुक्खा जाइजरामरणबंधनविमुक्का । अव्वाबाहं सुक्खं अनुहुंती सासयं सिद्धा ।।
वृ- वस्तुतो व्याख्यातैवेति न प्रतन्यते ॥
नि. (९८९)
नि. (९९०)
सिद्धाण नमोक्कारो जीवं० ॥ सिद्धाण नमुक्कारो धन्नाण० ॥ सिद्धाण नमक्कारो एवं० ॥
नि. (९९१)
नि. (९९२)
सिद्धाण नमुक्कारो सव्व० बिइअं होइ मंगलं ॥
वृ- गाथासमूहः सामान्यतोऽर्हन्नमस्कारवदवसेयः, विशेषतस्तु सुगम एवेति ॥ उक्तः सिद्धनमस्काराधिकारः, साम्प्रतमाचार्यनमस्कारः, तत्राचार्य इति कः शब्दार्थः, उच्यते, - 'चर गतिभक्षणयोः' इत्यस्य (चरेः) आङि वा गुरा विति ण्यति आचार्य इति भवति, आचर्यतेऽसावित्याचार्यः, कार्यार्थिभिः सेव्यत् इत्यर्थः, अयं च नामादिभेदाच्चतुर्विधः, तथा चाऽऽहनि. (९९३) नामंठवणादविए भावंमि चउव्विहो उ आयरिओ ।
दव्वंमि एगभविआई लोइए सिप्पसत्थाई ॥
वृ- नामाचार्यः स्थापनाचार्यः द्रव्याचार्यो भावाचार्य इति, तत्र नामस्थापनाचार्यौ सुगमौ, द्रव्याचार्यमागमनोआगमादिभेदं प्रायः सर्वत्र तुल्यविचारत्वादनाद्दत्य ज्ञशरीरादिव्यातिरिक्तिं द्रव्याचार्यमभिधातुकाम आह- 'द्रव्य' इति द्रव्याचार्य:, 'एकभविकादिः' एकभविकः बद्धायुष्कः अभिमुखनामगोत्रश्चेति, अथवा आदिशब्दाद्-द्रव्यभूत आचार्य द्रव्याचार्य:, भूतशब्द उपमावाची, द्रव्यनिमित्तं वा य आचारवानित्यादि, भावाचायः - लौकिको लोकोत्तरश्च तत्र लौकिकः शिल्पशास्त्रादिः, तत्परिज्ञानात् तदभेदोपचारेणैवमुच्यते, अन्यथा शिल्पादिग्राहको गृह्यते, अन्ये त्वेवं भेदमकृत्वौघत एवैनमपि द्रव्याचार्यं व्याचक्षत इति गाथार्थः । अधुना लोकोत्तरान् भावाचार्यान् प्रतिपादयन्नाह
नि. (९९४)
३८९
पंचविहं आयारं आयरमाणा तहा पभासंता । आयारं दंसंता आयरिया तेन वुच्छंति ॥
Jain Education International
वृ- 'पञ्चविधं' पञ्चप्रकारं ज्ञानदर्शनचारित्रतपोवीर्यभेदात्, 'आचार' मिति आङ् मर्यादायां चरणं चारः-मर्यादया कालनियमादिलक्षणया चार आचार इति, उक्तं च- 'काले विनए बहुमाने' इत्यादि, तमाचरन्तः सन्तः अनुष्ठानरूपेण, तथा प्रभाषमाणाः अर्थाद् व्याख्यानेन, तथाऽऽचारं दर्शयन्तः सन्तः प्रत्युपेक्षणादिक्रियाद्वारेण, मुमुक्षुभिः सेव्यन्ते येन कारणेनाचार्यास्तेनोच्यन्त इति गाथार्थः || अमुमेवार्थं स्पष्टन्नाह
नि. (९९५)
आयारो नाणाईं तस्सायरणा पभासणाओ वा । जे ते भावायरिया भावायारोवउत्ता य ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452