SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -१ - [ नि. ९८७] भवार्णवपारगमनात् 'परम्परागता इति च' पुण्यबीजसम्यक्त्वज्ञानचरणक्रमप्रतिपत्त्युपायमुक्तत्वात् परम्परया गताः परम्परागता उच्यन्ते, उन्मुक्तकर्मकवचाः सकलकर्मवियुक्तत्वात्, तथा अजरा वयसोऽभावात्, अमरा आयुषोऽभावात्, असङ्गाश्च सकलकेशाभावादिति गाथार्थः ।। साम्प्रतमुपसंहरन्नाह नि. (९८८) निच्छिन्नसव्वदुक्खा जाइजरामरणबंधनविमुक्का । अव्वाबाहं सुक्खं अनुहुंती सासयं सिद्धा ।। वृ- वस्तुतो व्याख्यातैवेति न प्रतन्यते ॥ नि. (९८९) नि. (९९०) सिद्धाण नमोक्कारो जीवं० ॥ सिद्धाण नमुक्कारो धन्नाण० ॥ सिद्धाण नमक्कारो एवं० ॥ नि. (९९१) नि. (९९२) सिद्धाण नमुक्कारो सव्व० बिइअं होइ मंगलं ॥ वृ- गाथासमूहः सामान्यतोऽर्हन्नमस्कारवदवसेयः, विशेषतस्तु सुगम एवेति ॥ उक्तः सिद्धनमस्काराधिकारः, साम्प्रतमाचार्यनमस्कारः, तत्राचार्य इति कः शब्दार्थः, उच्यते, - 'चर गतिभक्षणयोः' इत्यस्य (चरेः) आङि वा गुरा विति ण्यति आचार्य इति भवति, आचर्यतेऽसावित्याचार्यः, कार्यार्थिभिः सेव्यत् इत्यर्थः, अयं च नामादिभेदाच्चतुर्विधः, तथा चाऽऽहनि. (९९३) नामंठवणादविए भावंमि चउव्विहो उ आयरिओ । दव्वंमि एगभविआई लोइए सिप्पसत्थाई ॥ वृ- नामाचार्यः स्थापनाचार्यः द्रव्याचार्यो भावाचार्य इति, तत्र नामस्थापनाचार्यौ सुगमौ, द्रव्याचार्यमागमनोआगमादिभेदं प्रायः सर्वत्र तुल्यविचारत्वादनाद्दत्य ज्ञशरीरादिव्यातिरिक्तिं द्रव्याचार्यमभिधातुकाम आह- 'द्रव्य' इति द्रव्याचार्य:, 'एकभविकादिः' एकभविकः बद्धायुष्कः अभिमुखनामगोत्रश्चेति, अथवा आदिशब्दाद्-द्रव्यभूत आचार्य द्रव्याचार्य:, भूतशब्द उपमावाची, द्रव्यनिमित्तं वा य आचारवानित्यादि, भावाचायः - लौकिको लोकोत्तरश्च तत्र लौकिकः शिल्पशास्त्रादिः, तत्परिज्ञानात् तदभेदोपचारेणैवमुच्यते, अन्यथा शिल्पादिग्राहको गृह्यते, अन्ये त्वेवं भेदमकृत्वौघत एवैनमपि द्रव्याचार्यं व्याचक्षत इति गाथार्थः । अधुना लोकोत्तरान् भावाचार्यान् प्रतिपादयन्नाह नि. (९९४) ३८९ पंचविहं आयारं आयरमाणा तहा पभासंता । आयारं दंसंता आयरिया तेन वुच्छंति ॥ Jain Education International वृ- 'पञ्चविधं' पञ्चप्रकारं ज्ञानदर्शनचारित्रतपोवीर्यभेदात्, 'आचार' मिति आङ् मर्यादायां चरणं चारः-मर्यादया कालनियमादिलक्षणया चार आचार इति, उक्तं च- 'काले विनए बहुमाने' इत्यादि, तमाचरन्तः सन्तः अनुष्ठानरूपेण, तथा प्रभाषमाणाः अर्थाद् व्याख्यानेन, तथाऽऽचारं दर्शयन्तः सन्तः प्रत्युपेक्षणादिक्रियाद्वारेण, मुमुक्षुभिः सेव्यन्ते येन कारणेनाचार्यास्तेनोच्यन्त इति गाथार्थः || अमुमेवार्थं स्पष्टन्नाह नि. (९९५) आयारो नाणाईं तस्सायरणा पभासणाओ वा । जे ते भावायरिया भावायारोवउत्ता य ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy