Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 385
________________ ३८२ आवश्यक मूलसूत्रम्-१-१/१ प्रभुः शैलेशः, स च मेरुः, तस्येवेयं स्थिरतासाम्यादवस्थेति शैलेशी, अथवा-अशैलेशः सनभूततद्भावाच्छैलेशवदाचरति शैलेशीभवतीत्यध्याहारः, अथवा सर्वसंवरः शीलं तस्येशः शीलेशः तस्येयं योगनिरोधावस्थेति शैलेशी, इयं च मध्यमप्रतिपत्त्या हूस्वपञ्चाक्षरोद्रिणमात्रं कालं भवति, स च काययोगनिरोधारम्भात् प्रभृति ध्यायति सूक्ष्मक्रियाऽनिवृत्तिध्यानं, ततः सर्वनिरोधं कृत्वा शैलेश्यवस्थायां व्युच्छिन्नक्रियमप्रतिपातीति, ततो भवोपग्राहिकर्मजालं क्षपयित्वा क्रजुश्रेणिप्रतिपन्नः अस्पृशद्गत्या सिध्यतीति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः । अनन्तरगाथेपन्यस्तसमुद्घातमात्रापेक्षः संबन्धः । आह-समुद्घातगतानां विशिष्टकर्मक्षयो भवतीति काऽत्रोपपत्तिरिति?,उच्यते, प्रयत्नविशेषः, किं निदर्शनम् ? इत्यत् आहनि. (९५६) जह उल्ला साडीआ आसुं सुक्कइ विरल्लिआ संती । तह कम्मलहुअ समए वचंति जिना समुग्घायं ॥ वृ-'यथा' इत्युदाहरणोपन्यासार्थः, आर्द्रा शाटिका, जलेनेति गम्यते, ‘आशु' शीघ्रं 'शुष्यति' शोषमुपयाति, 'विरल्लिता' विस्तारिता सती भवति, तथा तेऽपि प्रयलविशेषात् कर्मोदकमधिकृत्य शुष्यन्तीति शेषः, यतश्चैवमतः'कर्मलघुतासमये व्रजन्ति जिनाः समुद्घात' मिति तत्र कर्मण-आयुष्कस्य लघुता कर्मलघुता, लघो वो लघुता-स्तोकतेत्यर्थः, तस्याः समयः कालः कर्मलघुतासमयः, स च भिन्नमुहूर्तप्रमाणस्तस्मिन्, अथवा कर्मभिलघुता कर्मलघुता, जीवस्येति हृदयं, सा च समुद्घातानन्तरभावन्येव भूतोपचारं कृत्वाऽनागतैव गृह्यते, तस्याः समयस्तस्मिन्, भिन्नमुहूर्त एवेत्यर्थः, व्रजन्ति-गच्छन्ति जिनाः-केवलिनः 'समुद्घातं' प्राक्प्ररूपितस्वरूपमिति गाथार्थः । साम्प्रतं यदुक्तं 'शैलेशी प्रतिपद्यते सिध्यति चे ति, तत्रासावेकसमयेन लोकान्ते सिध्यतीत्यागमः, इह च कर्ममुक्तस्य तद्देशनियमेन गतिर्नोपपद्यते इति मा भूदव्युत्पन्नविभ्रम इत्यतस्तन्निरासेनेष्टार्थसिद्धयर्थमिदमाहनि. (९५७) लाउअ एरंडफले अग्गी धूमे उसू धनुविमुक्के । गइपुव्वपओगेणं एवं सिद्धाणवि गईओ॥ वृ- अलाबु एरण्डफलम्, अग्निधूमौ, इषुर्धनुर्विमुक्तः, अमीषां यथा तथा गमनकाले स्वभावतस्तन्निबन्धना-भावेऽपि देशादिनियतैव गतिः पूर्वप्रयोगेण प्रवर्तते, एवमेव व्यवहिततुशब्दस्यैवकारार्थत्वात् सिद्धानामपि गतिरित्यक्षरार्थः । अधुना भावार्थः प्रयोगैर्निदर्श्यतेतत्र कर्मविमुक्तो जीवः सकृदूर्ध्वमेवाऽऽलोकाद्गच्छति, असङ्गत्वेन तथाविधपरिणामत्वादष्टमृत्तिकालेपलिप्ताधोनिमग्नक्रमापनीतमृत्तिकालेपजलतलमर्यादोर्ध्वगामितथाविधालाबुवत् तथा छिन्नवन्धनत्वेन तथाविधपरिणतेस्तद्विधैरण्डफलवत् तथा स्वाभाविकपरिणामत्वादग्निधूमवत् तथा पूर्वप्रयुक्तक्रियातथाविधसयामाद्धनुःप्रयलेरितेषुवद्, इषुः-शर इति गाथार्थः । एवं प्रतिपादिते सत्याहनि. (९५८) कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया। कहिं बोदिं चइत्ता णं, कत्थ गंतूण सिज्झई ?।। वृ- 'क्वप्रतिहताः' कप्रतिस्खलिता इत्यर्थः “सिद्धाः' मुक्ताः, तथा 'कसिद्धाः प्रतिष्ठिताः' क व्यवस्थिता इत्यर्थः, तथा 'क्क बोन्दिं त्यक्त्वा' व तनुं परित्यज्येत्यर्थः, इह बोन्दिः तनुः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452