________________
३८२
आवश्यक मूलसूत्रम्-१-१/१
प्रभुः शैलेशः, स च मेरुः, तस्येवेयं स्थिरतासाम्यादवस्थेति शैलेशी, अथवा-अशैलेशः सनभूततद्भावाच्छैलेशवदाचरति शैलेशीभवतीत्यध्याहारः, अथवा सर्वसंवरः शीलं तस्येशः शीलेशः तस्येयं योगनिरोधावस्थेति शैलेशी, इयं च मध्यमप्रतिपत्त्या हूस्वपञ्चाक्षरोद्रिणमात्रं कालं भवति, स च काययोगनिरोधारम्भात् प्रभृति ध्यायति सूक्ष्मक्रियाऽनिवृत्तिध्यानं, ततः सर्वनिरोधं कृत्वा शैलेश्यवस्थायां व्युच्छिन्नक्रियमप्रतिपातीति, ततो भवोपग्राहिकर्मजालं क्षपयित्वा क्रजुश्रेणिप्रतिपन्नः अस्पृशद्गत्या सिध्यतीति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः । अनन्तरगाथेपन्यस्तसमुद्घातमात्रापेक्षः संबन्धः । आह-समुद्घातगतानां विशिष्टकर्मक्षयो भवतीति काऽत्रोपपत्तिरिति?,उच्यते, प्रयत्नविशेषः, किं निदर्शनम् ? इत्यत् आहनि. (९५६) जह उल्ला साडीआ आसुं सुक्कइ विरल्लिआ संती ।
तह कम्मलहुअ समए वचंति जिना समुग्घायं ॥ वृ-'यथा' इत्युदाहरणोपन्यासार्थः, आर्द्रा शाटिका, जलेनेति गम्यते, ‘आशु' शीघ्रं 'शुष्यति' शोषमुपयाति, 'विरल्लिता' विस्तारिता सती भवति, तथा तेऽपि प्रयलविशेषात् कर्मोदकमधिकृत्य शुष्यन्तीति शेषः, यतश्चैवमतः'कर्मलघुतासमये व्रजन्ति जिनाः समुद्घात' मिति तत्र कर्मण-आयुष्कस्य लघुता कर्मलघुता, लघो वो लघुता-स्तोकतेत्यर्थः, तस्याः समयः कालः कर्मलघुतासमयः, स च भिन्नमुहूर्तप्रमाणस्तस्मिन्, अथवा कर्मभिलघुता कर्मलघुता, जीवस्येति हृदयं, सा च समुद्घातानन्तरभावन्येव भूतोपचारं कृत्वाऽनागतैव गृह्यते, तस्याः समयस्तस्मिन्, भिन्नमुहूर्त एवेत्यर्थः, व्रजन्ति-गच्छन्ति जिनाः-केवलिनः 'समुद्घातं' प्राक्प्ररूपितस्वरूपमिति गाथार्थः । साम्प्रतं यदुक्तं 'शैलेशी प्रतिपद्यते सिध्यति चे ति, तत्रासावेकसमयेन लोकान्ते सिध्यतीत्यागमः, इह च कर्ममुक्तस्य तद्देशनियमेन गतिर्नोपपद्यते इति मा भूदव्युत्पन्नविभ्रम इत्यतस्तन्निरासेनेष्टार्थसिद्धयर्थमिदमाहनि. (९५७) लाउअ एरंडफले अग्गी धूमे उसू धनुविमुक्के ।
गइपुव्वपओगेणं एवं सिद्धाणवि गईओ॥ वृ- अलाबु एरण्डफलम्, अग्निधूमौ, इषुर्धनुर्विमुक्तः, अमीषां यथा तथा गमनकाले स्वभावतस्तन्निबन्धना-भावेऽपि देशादिनियतैव गतिः पूर्वप्रयोगेण प्रवर्तते, एवमेव व्यवहिततुशब्दस्यैवकारार्थत्वात् सिद्धानामपि गतिरित्यक्षरार्थः । अधुना भावार्थः प्रयोगैर्निदर्श्यतेतत्र कर्मविमुक्तो जीवः सकृदूर्ध्वमेवाऽऽलोकाद्गच्छति, असङ्गत्वेन तथाविधपरिणामत्वादष्टमृत्तिकालेपलिप्ताधोनिमग्नक्रमापनीतमृत्तिकालेपजलतलमर्यादोर्ध्वगामितथाविधालाबुवत् तथा छिन्नवन्धनत्वेन तथाविधपरिणतेस्तद्विधैरण्डफलवत् तथा स्वाभाविकपरिणामत्वादग्निधूमवत् तथा पूर्वप्रयुक्तक्रियातथाविधसयामाद्धनुःप्रयलेरितेषुवद्, इषुः-शर इति गाथार्थः । एवं प्रतिपादिते सत्याहनि. (९५८) कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया।
कहिं बोदिं चइत्ता णं, कत्थ गंतूण सिज्झई ?।। वृ- 'क्वप्रतिहताः' कप्रतिस्खलिता इत्यर्थः “सिद्धाः' मुक्ताः, तथा 'कसिद्धाः प्रतिष्ठिताः' क व्यवस्थिता इत्यर्थः, तथा 'क्क बोन्दिं त्यक्त्वा' व तनुं परित्यज्येत्यर्थः, इह बोन्दिः तनुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org