________________
३८३
अध्ययनं-१ - [नि.९५८] शरीरमित्यनान्तरं, तथा क्वगत्वा 'सिध्यन्ति' निष्ठितार्थां भवन्ति, इत्यनुस्वाारलोपोऽत्र द्रष्टव्यः, अथवैकवचनतोऽप्येवमुपन्यासः सूत्रशैल्याऽविरुद्ध एव, यतोऽन्यत्रापि प्रयोगः
__ 'वत्थगंधमलंकारं इत्थीओ सयणाणि य।
अच्छंदा जे नं भुंजंति न से चाइत्ति वुच्चई ॥१॥ इत्यादि गाथार्थः ।। इत्थं चोदकपक्षमधिकृत्याऽऽहनि. (९५९) अलोए पडिहया सिद्धा, लोअग्गे अ पइट्ठिआ।
इहं बोदिं चइत्ता णं, तत्थ गंतूण सिज्झई ॥ . वृ- 'अलोके' केवलाकाशास्तिकाये 'प्रतिहताः' प्रतिस्खलिताः सिद्धा इति, इह च तत्र धर्मास्तिकायाद्यभावात् तदानन्तर्यवृत्तिरेव प्रतिस्खलनं, न तु सम्बन्धिविघातः, प्रदेशानां निष्प्रदेशत्वादिति सूक्ष्मधिया भावनीयं, तथा 'लोकाग्रे च' पञ्चास्तिकायात्मकलोकमूर्धनि च प्रतिष्ठिताः, अपुनरागत्या व्यवस्थिता इत्यर्थः, तथा 'इह' अर्धतृतीयद्वीपसमुद्रान्तः 'बोन्दि' तनुं त्यक्त्वा' परित्यज्य सर्वथा किम् ?-'तत्र' लोकाग्रं गत्वा' अस्पृशद्गत्या समयप्रदेशान्तरमस्पृशन्नत्यर्थः, 'सिध्यन्ति' निष्ठितार्था भवन्ति सिद्ध्यति वेति गाथार्थः ॥ तत्र ‘लोकाग्रे च प्रतिष्ठिता' इति यदुक्तं तदङ्गीकत्याऽऽह-कपुनर्लोकान्त इत्यत्रान्तरमाहनि. (९६०) ईसीपब्भाराए सीआए जोअणंमि लोगंतो।
बारसहिं जोअणेहिं सिद्धी सव्वठ्ठसिद्धाओ॥ वृ- ईषत्प्राग्भारा-सिद्धिभूमिस्तस्याः “सीताया' इति द्वितीयं भूमे मधेयं योजने लोकान्त ऊर्ध्वमिति गम्यते, अधस्तिर्यक् चैतावति क्षेत्रे तदसम्भवात्, तथा चाऽह-द्वादशभिर्योजनैः सिद्धिःऊर्ध्वं भवति, कुतः? -सर्वार्थसिद्धाद् विमानवरात्,अन्येतु सिद्धिं' लोकान्तरक्षेत्र-लक्षणामेव व्याचक्षते, तत्त्वंतु केवलिनो विदन्तीति गाथार्थः ॥ साम्प्रतमस्या एव स्वरूपव्या-वर्णनायाहनि. (९६१) निम्मलदगरयवण्णा तुसारगोखीरहारसरिवत्रा ।
उत्ताणयछत्तयसंठिआ य भणिया जिनवरेहिं ।। वृ-निर्मलदगरजोवर्णाः, तत्र दगरजः- श्यक्ष्णोदकणिकाः, तुषारगोक्षीरहारतुल्यवर्णाः, तुषारः हिमं, गोक्षीरादयः प्रकटाथाः । संस्थानमुपदर्शयन्नाह-उत्तानच्छन्नसंस्थिता च भणिता जिनवरैरिति, उत्तानच्छत्रवत् संस्थितेति गाथार्थः ॥अधुना परिधिप्रतिपादनेनास्या एवोपायतः प्रमाणम-भिधित्सुराहनि. (९६२) एगा जोअणकोडी बायालीसं च सयसहस्साई।
तीसं चेव सहस्सा तो चेव सया अउणवन्ना ।। वृ-निगदसिद्धा, नवरं पञ्चचत्वारिंशद्योजनलक्षप्रमाणक्षेत्रस्याल्पमन्यत् परिध्याधिक्यं प्रज्ञापनातोऽवसेयम्, इहौघत इदमिति ।। इदानीमस्या एव बाहुल्यं प्रतिपादयन्नाहनि. (९६३) बहुमज्झदेसभागे अट्ठेव य जोअणाणि बाहल्लं ।
- चरमंतेसु अ तणुई अंगुलऽसंखिज्जईभागं ।। . कृ-मध्यदेशभाग एव बहुमध्यदेशभागस्तस्मिन्नष्टैव योजनानि बाहुल्यम्-उच्चैस्त्वं चरिमान्तेषु' पश्चिमान्तेषु तन्वी, कियता तनुत्वेन ? इत्यत्राह-अमुलासङ्खयेयभागं यावत् तन्वीति गाथार्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org