________________
३८४
आवश्यक मूलसूत्रम्-१-१/१
सा पुनरनेन क्रमेणेत्थं तन्वीति दर्शयतिनि. (९६४) गंतूण जोअणं जोअणं तु परिहाइ अंगुलपुहुत्तं ।
तीसेऽविअ पेरंता मच्छिअपत्ताउ तनुअयरा ॥ वृ-गत्वा योजनं योजनं तु वीप्सा परिहायइत्ति परिहीयते 'अङ्गुलपृथक्त्वं' पृथक्त्वं पूर्ववत्, 'एवम्' अनेन प्रकारेण हानिभावे सति तस्या अपि च पर्यन्ताः, किं ? -मक्षिकापत्रात् तनुतरा घृतपूर्णतथविधकरोटिकाकारेति गाथार्थः ।। स्थापना चेयं । अस्याश्चोपरि योजनचतुर्विंशतिभागे सिद्धा भवन्तीति । अत एवाऽऽहनि. (९६५) ईसीपब्माराए सीआए जोअणंमि जो कोसो ।
कोसस्स य छब्भाए सिद्धाणोगाहणा भणिआ ॥ वृ- ईषत्प्राग्भारायाः सीताया इति पूर्ववत्, ‘योजने' उपरिवर्तिनि यः क्रोश उपरिवर्येव, क्रोशस्य च तस्य ‘षड्भागे' उपरिवर्तिन्येव सिद्धाानामवगाहना भणिता, लोकाग्रे च प्रतिष्ठिता इति वचनाद्, अयं गाथार्थः ।। अमुमेवार्थं समर्थयन्नाहनि. (९६६) तिन्नि सया तित्तीसा धनुत्ति भागो अ कासछब्माओ ।
जं परमोगाहोऽयं तो ते कोसस्स छब्माए॥ वृ-त्रीणि शतानि धनुषां त्रयस्त्रिंशदधिकानि धनुस्त्रिभागश्च क्रोशषड्भागो वर्तते 'यत्' यस्मात् परमावगाहोऽयं सिद्धानामिति वर्तते, ततस्ते क्रोशस्य षड्भाग इति गाथार्थः॥
अथ कथं पुनस्तत्र तेषामुपपातोऽवगाहना वेत्यत्रोच्यतेनि. (९६७) उत्ताणउव्व पासिल्लउव्व अहवा निसन्नओ चेव ।
जा जह करेइ कालं सो तह उववज्जए सिद्धो । वृ- उत्तानको वा पृष्ठतो वा अविनतादिस्थानतः पार्श्वस्थितो वा तिर्यस्थितो वा, अथवा निष्पन्न (षण्ण) कश्चैव इति प्रकटार्थं, किंबहुना?, यो 'यथा' यन प्रकारेणावस्थितः सन् करोति कालं स 'तथा' तेन प्रकारेणोपपद्यते सिद्ध इति गाथार्थः ॥
किमित्येतदेवम् ? इत्यत् आहनि. (९६८) इह भवभिन्नागारो कम्मवसाओ भवंतरे होइ ।
न य तं सिद्धस्स जओ तंमी तो सो तयागारो॥ वृ. इहभवभिन्नाकारः 'कर्मवशात् कर्मवशेन "भवान्तरे' स्वर्गादौ भवति, तदाकारभेदस्य कर्मनिबन्धनत्वात्, न च कर्म सिद्धस्य, यतः 'तस्मिन्' अपवर्गे ततोऽसौ सिद्धः 'तदाकारः' पूर्वभवाकार इति गाथार्थः ॥ तथा किं चनि. (९६९) जं संठाणं तु इहं भवं चयंतस्स चरमसमयंमि ।
आसी अ पएसघनं तं संठाणं तहिं तस्स ॥ वृ-यत् संस्थानमत्रैव 'भवं' संसारं मनुष्यभवं वा त्यजतः सतश्चरमसमये आसीत् प्रदेशघनं तदेव संस्थानं तत्र तस्य भवति, त्रिभागेन रन्ध्रापूरणादिति गाथार्थः ।। तथा चाऽऽहनि. (९७०) दीहं वा हस्सं वा जं चरमभवे हविज संठाणं ।
तत्तो तिभागहीना सिद्धाणोगाहणा भणिआ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org