________________
अध्ययनं-१ - [नि.९५५]
३८१
सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥२।। इति ।। तस्येदानीं समुद्घातगतस्य योगव्यापारश्चिन्त्यते-योगाश्चमनोवाक्कायाः, अत्रैषां कः कदा व्याप्रियते ?, तत्र हि मनोवाग्योगव्यापार एव, प्रयोजनाभावात्, काययोगस्यैव केवलस्य व्यापारः, तत्रापि प्रथमाष्टमसमययोरौदारिककायप्राधान्यादौदारिकयोग एव, द्वितीयषष्ठसप्तमे समये पुनरौदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, त्रिचतुर्थपञ्चमेषु तु बहिरेवौदारिकात् बहुतरप्रदेश-व्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनादिति, अन्यत्राप्युक्तम्
"औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥१॥
कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमाद् ॥२॥" इति, -कृतं प्रसङ्गेन । भाषायोगनिरोध इति, कोऽर्थः ?-परित्यक्तसमुद्घातः कारणवशाद् योगत्रयमपि व्यापारयेत्, ततर्थ मध्यवर्तिनं योगमाह-भाषेति, अत्रान्तरेऽनुत्तरसुरपृष्टो मनोयोगं सत्यं वाऽसत्यामृषं वा प्रयुङ्क्ते, एवमामन्त्रणादौ वाग्योगमपि, नेतरौ द्वौ भेदी द्वयोरपि, काययोगमप्यौदारिकं फलकप्रत्यर्पणादाविति, ततोऽन्तर्मुहूर्तमात्रेणैव कालेन योगनिरोधं करोति, अत्र केचिद् व्याचक्षते-जघन्येनैतावता कालेन उत्कृष्टतस्तु षड्भिमसिरिति, एतच्चायुक्तं, 'क्षपयन्ति कर्म निरवशेष' मिति वचनात् फलकादीनां च प्रज्ञापनायां प्रत्यर्पणस्यैवोक्तत्वात्, एवं च सति ग्रहणमपि स्याद्, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-स हि योगनिरोधं कुर्वन् प्रथममेव याऽसौ प्रथममेव शरीरप्रदेशसम्बद्धा मनः पर्याप्तिनिर्वृत्तिर्यया पूर्वं मनोद्रव्यग्रहणं कृत्वा भावमनः प्रयुक्तवान् तत्कर्मसंयोगविघटनाय मन्त्रसामर्थ्येन विषमिव स भगवाननुत्तरेणाचिन्त्येन निरावरणेन करणवीर्येण तद्व्यापारं निरुध्य च -
'पज्जत्तमित्तसन्निस्स जत्तियाई जहन्नजोगिस्स । होति मनोदव्वाइं तव्वावारो य जम्मत्तो ॥१॥ तदसंखगुणविहीणं समए २ निरुंभमाणो सो । मनसो सव्वनिरोहं करेजऽसंखेज्जसमएहिं ॥२॥
पज्जत्तमेत्तबेंदियजहन्नवयजोगपज्जया जे य । तदसंखगुणविहीणे समए समए निरंभंतो ॥३॥
सव्ववइजोगरोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहुमपणगस्स पढमसमयोववन्नस्स ॥४॥
जो किर जोगो तदसंखेज्जगुणहीनमेक्किक्के । समए निरंभमाणो देहतिभागं च मुंचंतो ॥५॥ रुंभइ स कायजोगं संखाईएहि चेव समएहिं ।
तो कयजोगनिरोहो सेलेसी भावनामेइ ॥६॥ ति ततः शैलेशी प्रतिपद्यते, तत्र शिलाभिनिवृत्तः शिलानां वाऽयमित्यण शैलः-पर्वतस्तेषामीशः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org