________________
आवश्यक मूलसूत्रम् - १-१/१
एतदयुक्तम्, उभयथाऽप्यदोषात्, तथाहि - विषमनिबन्धनत्वे सत्यपि विचित्रक्षयसम्भवात् कालतः समस्थितित्वाविरोध एव, चरमपक्षेऽ पिसमुद्घातगमनेन समस्थितिकरणभावाददोषः, न चैतत् स्वमनीषिकयैवोच्यते, यत आह नियुक्तिकार :
३८०
नि. (९५४) नाऊण वेअणिज्जं अइबहुअं आउअं च थोवागं । तूण समुग्धायं खवंति कम्मं निरवसेसं ॥
वृ- ज्ञात्वा' केवलेनावगम्य, किं ? - वेदनीयं कर्म, किंभूतं ? - 'अतिबहु' शेषवोपग्राहिकमपिक्षयाऽतिप्रभूतमित्यर्थः, तथाऽऽयुष्कं च कर्म 'स्तोकम्' अल्पं, तदपेक्षयैव ज्ञात्वेति वर्तते, अत्रान्तरे 'गत्वा' प्राप्य ' समुद्घातम्' इति सम्यग् - अपुनर्भावेनोत् प्राबल्येन कर्मणो हननं घातः-प्रलयो यस्मिन् प्रयत्नविशेषेऽसौ समुद्घात इति तम्, 'क्षपयन्ति' विनाशयन्ति 'कर्म' वेदनीयादि निरवशेषम्' इति निरवशेषमिव प्रभूततमक्षणपणाच्छेषस्य चान्तर्मुहूर्तमात्रकालावधित्वात्, किञ्चिच्छेषत्वादसत्कल्पनेति भावना, अत्राऽऽह- 'ज्ञात्वा वेदनीयमतिबह्नि' त्यत्र को नियमः ? येन तदेव बहु तथाऽऽयुष्कमेवाल्पमित, अत्रोच्यते, वेदनीयस्य सर्वकर्मभ्यो बन्धकालबहुत्वात् केवलिनोऽपि तद्बन्धकत्वादायुष्कस्य चाल्पत्वात्, उक्तं च- 'जाव णं अयं जीवे एयइ वेयइ चलइ फंदइ ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा नो णं अबंधए' आयुष्कस्य त्वान्तर्मुहूर्तिक एव बन्धकाल इति, उक्तं च- "सिय तिभागे सिय तिभागतिभागे” इत्याद्यलं प्रसङ्गेनेति । इदानीं समुद्घातदिस्वरूप प्रतिपादनायैवाऽऽह नि. (९५५) दंड कवाडे मंथंतरे अ साहरणया सरीरत्थे ।
भासाजोगनिरोहे सेलेसी सिज्झणा चेव ॥
वृ- इह समुद्घातं प्रारभमाणः प्रथममेवावर्जीकरणमभ्येति, आन्तर्मौहूर्तिकमुदीरणावलिकायां कर्मपुद्गलप्रक्षेपव्यापाररूपमित्यर्थः, ततः समुद्घातं गच्छति, तस्य चायं क्रयः इह प्रथमसमय एव स्वदेहविष्यकम्भतुल्यविष्कम्भमूर्ध्वमधश्चाऽऽयतमुभयतोऽपि लोकान्तगामिनं जीवप्रदेशसङ्घीतं दण्डं दण्डस्थानीयं केवली ज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामिनं कपाटमिव कपाटं करोति, तृतीयसमये तदेव कपाटं दक्षिणोत्तर दिग्द्वयप्रसारणान्मन्थसध्शं मन्थानं करोति लोकान्तप्रापिणमेव, एवं च लोकस्य प्रायो बहु परिपूरितं भवति, मन्थान्तराण्यपूरितानि भवन्ति, अनुश्रेणिगमनात्, चतुर्थे तु समये तान्यपि मन्थान्तराणि सह लोकनिष्कुटैः पूरयति, ततश्च सकलो लोकः पूरितो भवतीति, तदनन्तरमेव पञ्चमे समये यथोक्तक्रमात् प्रतिलोमं मन्थान्तराणि संहरति- जीवप्रदेशान् सकर्मकान सङ्कयोचयति, षष्ठे समये मन्थानमुपसंहरति घनतरसङ्कोचात्, सप्तमे समये कपाटमुपसंहरति दण्डात्मनि सङ्कोचात्, अष्टमसमये दण्डमुपसंहृत्य शरीरस्थ एव भवति अमुमेवार्थं चेतिस निधायोक्तं दण्डकपाटं मन्थान्तराणि संहरणता प्रतिलोममिति गम्यते, शरीरस्थ इति वचनात्; न चैतत् स्वमनीषिकाव्याख्यानं, यत उक्तम्
प्रथम समये दण्डं कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥१॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org