________________
अध्ययनं-१ - [नि.९५२]
३७९
पच्छा सो सिद्धत्ति । उक्तस्तपः सिद्धः, साम्प्रतं कर्मक्षयसिद्धप्रतिपादनाय गाथाचरमदलमाह-'सो कम्म' इत्यादि, स कर्मक्षयसिद्धः, यः किंविशिष्ट इत्यत आह-'सर्वक्षीणकर्मांशः' सर्वे-निरवशेषाः क्षीणाः कर्मांशा-कर्मभेदा यस्य स तथाविध इति गाथार्थः ।।
साम्प्रतं कर्मक्षयसिद्धमेव प्रपञ्चतो निरुक्तविधिना प्रतिपादयन्नाहनि. (९५३) . दीहकालरयं जं तु कम्मं से सिअमट्टहा ।
सिअंधंतंति सिद्धस्स सिद्धत्तमुवजायइ ॥ वृ- दीर्घः सन्तानापेक्षयाऽनादित्वात् स्थितिबन्धकालो यस्य तद्दीर्घकालं, निसर्गनिर्मलजीवानुरञ्जनाच्च कर्मैव भण्यते ततश्च दीर्घकालं च तद्रजश्चेति दीर्घकालरजः, यच्छब्दः सर्वनामत्वादुद्देशवचनः, यत्कर्मेत्यप्रकारं, तुशब्दो भव्यकर्मविशेषणार्थः, यतो नाभव्यकर्म सर्वथा ध्यामत इति, ततश्च यद्भव्यकर्मेति 'शेषितम्' इति शेषं कृतं शेषितं-स्थित्यादिभिः प्रभूतं सत् स्थितिसङ्ख्यानुभावापेक्षयैवानाभोगसद्दर्शनज्ञानचरणाधुपायतः शेषम्-अल्पं कृतमिति भावः, प्राक् किं-भूतं सच्छेषितम् ? इत्याह-'अष्टधा सितम्' अष्टप्रकारं ज्ञानावरणादिभेदेन सितं "सित वर्णबन्धनयो' रिति वचनात् सितंबद्धमुच्यते । इदानीं निरुक्तिमुपदर्शयति-तच्छेषितं सितं कर्म भातं, ‘मा शब्दाग्निसंयोगयो रिति वचनात् ध्यानानलेन दग्धं महानिना लोहमलवदस्येति सिद्ध इति, एवं कर्मदहनानन्तरं सिद्धस्यैव सतः किं ? -सिद्धत्वमुपजायते, नासिद्धस्य, 'भव्योऽसिद्धो न सिध्यतीति वचनाद्, उपजायत इत्यपि तदात्मनः स्वाभाविकमेव सदनादिकवृितं तदावरणविगमेनाऽऽविर्भवति तत्त्वतः तथाऽपि लौकिकवाचोयुक्तया व्यवहारदेशनयोपजायत इत्युच्यते, अथवा सिद्धस्य सिद्धत्वं भावरूपमुपजायते, न तु प्रदीपनिर्वाणकल्पमभावरूपमिति नयमतान्तरव्यवच्छेदार्थमेतत्, तथा चाऽऽहुरेके
'दीपो यथा निवृत्तिमभ्युपेतो, नैवावनि गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित्, नेहक्षयात् केवलमति शान्तिम् ॥१॥ इत्यादि, एवं विधसिद्धत्वभावे दीक्षादिप्रयासवैयर्थ्यात् निरन्वयक्षणभङ्गस्य चायुज्यमानत्वात्, प्रदीपदृष्टान्तस्यायसिद्धत्वात्, तथाहि-तत्र त रूव पुद्गला भास्वरं रूपं परित्यज्य तामसं रूपान्तरमासादयन्तीत्यलं विस्तरेण, अथवाऽन्यथा व्याख्यायते 'दीर्घकालरयं' इति रयः-वेगः चेष्टाऽनुभवः फलमित्यनान्तरं, ततश्च दीर्घकालो रयोऽस्येति दीर्घकालरयं, सन्तानोपभोग्यत्वादिति भावना, यद्भव्यर्म ‘सेसित' मिति श्लेषितमिति संश्लिष्ट लेश्यानुभावात् अष्टधा सितमित्यादि पूर्ववत्, अथवाऽन्था व्याख्यायते-दीर्घकालरज इति, तत्र रज इव रजः सूक्ष्मतया नेहबन्धनयोग्यत्वाद्वा रज इत्युच्यते, यद्भव्यकर्मेति च नैवं व्याख्यायते, साक्षात्मकर्माभिधनेन सर्वनाम्नो निरर्थकत्वात्, प्रकरणादेव भव्यस्यावगम्यमानत्वाद्, अभव्यस्य सिद्धत्वानुपपत्तेः, ततश्च जन्तुकर्म इति व्याख्यायते, जन्तुः-जीवस्तस्य कर्म जन्तुकर्म, अनेनाबद्धकर्मव्यवच्छेदमाह, तच्च से' तस्य जन्तोः 'असितम्' असितमिति कृष्णमशूभं संसारानुबन्धित्वात्, एवंविधस्यैव च क्षयः श्रेयानिति, न तु शुभस्य स्वरूपस्येति भावना, अष्टधा सितमिति पूर्ववदिति गाथार्थः। प्रथमव्याख्यापक्षमधिकृत्य सम्बन्धमाह-तत्कर्मशेषं तस्य समस्थित्यसमस्थिति वा स्यात् ?, न तावत् समस्थिति विषमनिबन्धनत्वात्, नाप्यसमस्थिति चरमसमये युगपत् क्षयासम्भवादिति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org