Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 389
________________ ३८६ आवश्यक मूलसूत्रम्-१-१/१ धर्मास्तिकायादिवत्, ‘पुट्ठा सव्वे य लोगंते' त्ति स्पृष्टाः-लग्नाः सर्वे च लोकान्ते, अथवा स्पृष्टः सर्वैश्च लोकान्त इति, लोकाग्रे च प्रतिष्ठिता इति वचनाद्, अयं गाथार्थः । तथानि. (९७६) फुसइ अनंते सिद्धे सव्वपएसेहिं निअमसो सिद्धो । तेऽवि असंखिज्जगुणा देसपएसेहिं जे पुट्ठा । वृ-स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैः आत्मसम्बन्धिभिः 'नियमात' नियमेन सिद्ध इति, तथा तेऽप्यसङ्ख्येयगुणा वर्तन्ते देशप्रदेशैर्ये स्पृष्टाः, तेभ्यः सर्वदेशप्रदेशस्पृष्टेभ्यः, कथं ?, सर्वात्मप्रदेशैरनन्ताः स्पृष्टाः, तथैकैकप्रदेशेनाप्यनन्ता एव, स चासङ्ख्येयप्रदेशात्मकः, ततश्च मूलानन्तकं सकलजीवप्रदेशासङ्खयेयानन्तकैर्गुणितं यथोक्तमेव भवतीति गाथार्थः ॥ साम्प्रतं सिद्धानेव लक्षणतः प्रतिपादयन्नाहनि. (९७७) असरीरा जीवघना उवउत्ता दंसणे अ नाणे अ। सागारमनागारं लक्खणमेअंतु सिद्धाणं ॥ वृ- अविद्यमानशरीराः, औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्चेति घनाश्चेति विग्रहः, घनग्रहणं शुषिरापूरणाद्, उपयुक्ताः , क?, 'दर्शने च' केवलदर्शने 'ज्ञाने च' केवल एवेति, इह च सामान्यसिद्धलक्षणमेतदिति ज्ञापनार्थं सामान्यालब्भनदर्शनाभिधानमादावदुष्टमिति, तथा च सामान्यविषयं दर्शनं विशेषविषयं ज्ञानमिति, ततश्च साकारानाकारं सामान्यविशेषरूपमित्यर्थः, 'लक्षणं' तदन्यव्यावृत्तं स्वरूपमित्यर्थः 'एतद्' अनन्तरोक्तं, तुशब्दो वक्ष्यमाणनिरुअपमसुखविशेषणार्थः, 'सिद्धानां' निष्ठितार्थानामिति गाथार्थः ।। साम्प्रतं केवलज्ञानदर्शनयोरशेषविषयतामुपदर्शयतिनि. (९७८) केवलनाणुवउत्ता जाणंती सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठीहिऽनंताहिं ।। वृ- केवलज्ञानेनोपयुक्ताः केवलज्ञानोपयुक्ताः न त्वन्तः करणेन, तदभावादिति, किं ?, 'जानन्ति' अवगच्छन्ति 'सर्वभालुणभावान्' सर्वपदार्थगुणपर्यायानित्यर्थः, प्रथमो भावशब्दः पदार्थवचनः द्वितीयः पर्यायवचन इति, गुणपर्यायभेदस्तु सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इति, तथा ‘पश्यन्ति सर्वतः खलु' खलुशब्दस्यावधारणार्थत्वात् सर्वत एव, 'केवलष्टिभिरनन्ताभिः' केवलदर्शनैरनन्तैरित्यर्थः, अनन्तत्वात् सिद्धानामिति, इह चाऽऽदौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिद्धयन्तीति ज्ञापनार्थमिति गाथार्थः ।। आह-किमेते युग पज्जानन्ति पश्यन्ति च ? इत्याहोश्विदयुगपदिति, अत्रोच्यते, अयुगपत्, कथमवसीयते ?, यत आहनि. (९७९) नाणंमि दंसणमि अ इत्तो एगयरयंमि उवउत्ता । सव्वस्स केवलिस्सा जुगवं दो नत्यि उवओगा ॥ वृ-ज्ञान दर्शन च एत्तो' त्ति अनयोरेकतरस्मिन्नुपयुक्ताः, किमिति ? यतः सर्वस्य केवलिनः सत्त्वस्य 'युगपद्' एकस्मिन् काले द्वौ न स्तः उपयोगौ, तत्स्वाभव्यात्; क्षायोपशमिकसंवेदने तथादर्शनात्, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ।। साम्प्रतं निरुमपसुखभाजश्च त इत्येतदुपदर्शयन्नाहनि. (९८०) नवि अत्थि मानुसाणं तं सुक्खं नेव सव्वदवाणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452