Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं -१ - [ नि. ९७०]
३८५
वृ- 'दीर्घं वा' पञ्च धनुः शतप्रमाणं ' ह्रस्वं वा' हस्तद्वयप्रमाणं, वाशब्दात् मध्यमं वा विचित्रं यत् 'चरमभवे' पश्चिमभवे भवेत् संस्थानं 'ततः' तस्मात् संस्थानात् त्रिभागहीना, कुतः ? - त्रिभागेन शुषिरपूरणात्, सिद्धानामवगाहना, अवगाहन्तेऽ स्यामवस्थायामित्यवगाहना स्वावस्थैवेति भावः, 'भणिता' उक्ता तीर्थकरगणधरैरिति गाथार्थः ॥
साम्प्रतमुत्कृष्टादिभेदभिन्नाम-वगाहनामभिधित्सुराह
नि. (९७३)
नि. (९७१) तिन्नि सया तित्तीसा धनुत्ति भागो अ होइ बोद्धव्वो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिआ || नि. (९७२) चत्तारि अ रयणीओ रयणितिभागूणिआ य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिआ ।। गाय होइ रयणी अद्वेव य अंगुलाइ साहीआ । एसा खलु सिद्धाणं जहन्न ओगाहणा भणिआ || वृ- एतास्तिस्रोऽपि निगदसिद्धाः, नवरमाक्षेपपरिहारौ भाष्यकृतोक्तौ तौ चेमौ'किह मरुदेवीमाणं ? नाभीओ जेण किंचिदूणा सा । तो किर पंचसयं चिय अहवा संकोयओ सिद्धा ||१|| सत्तूसिएस सिद्धी जहन्नओ किहमिहं बिहत्थेसु ? | साकिर तित्थकरे सेसाणं सिज्झमाणाणं ||२|| ते पुण हो बिहत्था कुम्मापुत्तादओ जहन्त्रेणं । अत्रे संवट्टियसत्तहत्यसिद्धस्स हीनत्ति ||३|| बाहुल्लतोय सुत्तंमि सत्त पंच य जहन्नमुकोसं ।
इहरा हीनब्भहियं होज्जंगुलधनुपुहुत्तेहिं ॥४॥ अच्छेरयाइ किंचिवि सामन्नसुए न देसियं सव्वं । हो व अनिबद्धं चिय पंचसयादेसवयणं व ॥५॥
इत्यादि कृतं प्रसङ्गेन । साम्प्रतमुक्तानुवादेनैव संस्थानलक्षणं सिद्धानामभिधातुकाम आहनि. (९७४) ओगाहणाइ सिद्धा भवत्तिभागेण हुंति परिहीणा । संठाणमनित्थंत्थं जरामरणविप्पमुक्काणं ॥
वृ- निगदसिद्धा, नवरम् 'अनित्थंस्थम् इतीदंप्रकारमापन्नमित्थम् इत्थं तिष्ठतीति इत्थस्थं न इत्थस्थं अनित्थंस्थमिति केनचित् प्रकारेण लौकिकेनास्थितमित्यर्थः । आह-आघत एते किं देशभेदन स्थिता ? उत नेति ?, नेत्याह- कुत इति ?, अत्रोच्यते, यस्मात्
नि. (९७५) जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का । अनुन्नसमोगाढा पुट्ठा सव्वे अ लोगंते ॥
वृ- यत्रैव देशे चशब्दास्यैवकारार्थत्वात् एकः 'सिद्धः' निर्वृतः, तत्रानन्ताः किं ? 'भवक्षयविमुक्ता' इति भवक्षयेण विमुक्ताः भवक्षयविमुक्ताः, अनेन पुनः स्वेच्छया भवावतरणशक्तिमसिद्धाव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः, तथाविधाचिन्त्यपरिणामवत्त्वात्,
24 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452