Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 384
________________ अध्ययनं-१ - [नि.९५५] ३८१ सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥२।। इति ।। तस्येदानीं समुद्घातगतस्य योगव्यापारश्चिन्त्यते-योगाश्चमनोवाक्कायाः, अत्रैषां कः कदा व्याप्रियते ?, तत्र हि मनोवाग्योगव्यापार एव, प्रयोजनाभावात्, काययोगस्यैव केवलस्य व्यापारः, तत्रापि प्रथमाष्टमसमययोरौदारिककायप्राधान्यादौदारिकयोग एव, द्वितीयषष्ठसप्तमे समये पुनरौदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, त्रिचतुर्थपञ्चमेषु तु बहिरेवौदारिकात् बहुतरप्रदेश-व्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनादिति, अन्यत्राप्युक्तम् "औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥१॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमाद् ॥२॥" इति, -कृतं प्रसङ्गेन । भाषायोगनिरोध इति, कोऽर्थः ?-परित्यक्तसमुद्घातः कारणवशाद् योगत्रयमपि व्यापारयेत्, ततर्थ मध्यवर्तिनं योगमाह-भाषेति, अत्रान्तरेऽनुत्तरसुरपृष्टो मनोयोगं सत्यं वाऽसत्यामृषं वा प्रयुङ्क्ते, एवमामन्त्रणादौ वाग्योगमपि, नेतरौ द्वौ भेदी द्वयोरपि, काययोगमप्यौदारिकं फलकप्रत्यर्पणादाविति, ततोऽन्तर्मुहूर्तमात्रेणैव कालेन योगनिरोधं करोति, अत्र केचिद् व्याचक्षते-जघन्येनैतावता कालेन उत्कृष्टतस्तु षड्भिमसिरिति, एतच्चायुक्तं, 'क्षपयन्ति कर्म निरवशेष' मिति वचनात् फलकादीनां च प्रज्ञापनायां प्रत्यर्पणस्यैवोक्तत्वात्, एवं च सति ग्रहणमपि स्याद्, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-स हि योगनिरोधं कुर्वन् प्रथममेव याऽसौ प्रथममेव शरीरप्रदेशसम्बद्धा मनः पर्याप्तिनिर्वृत्तिर्यया पूर्वं मनोद्रव्यग्रहणं कृत्वा भावमनः प्रयुक्तवान् तत्कर्मसंयोगविघटनाय मन्त्रसामर्थ्येन विषमिव स भगवाननुत्तरेणाचिन्त्येन निरावरणेन करणवीर्येण तद्व्यापारं निरुध्य च - 'पज्जत्तमित्तसन्निस्स जत्तियाई जहन्नजोगिस्स । होति मनोदव्वाइं तव्वावारो य जम्मत्तो ॥१॥ तदसंखगुणविहीणं समए २ निरुंभमाणो सो । मनसो सव्वनिरोहं करेजऽसंखेज्जसमएहिं ॥२॥ पज्जत्तमेत्तबेंदियजहन्नवयजोगपज्जया जे य । तदसंखगुणविहीणे समए समए निरंभंतो ॥३॥ सव्ववइजोगरोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहुमपणगस्स पढमसमयोववन्नस्स ॥४॥ जो किर जोगो तदसंखेज्जगुणहीनमेक्किक्के । समए निरंभमाणो देहतिभागं च मुंचंतो ॥५॥ रुंभइ स कायजोगं संखाईएहि चेव समएहिं । तो कयजोगनिरोहो सेलेसी भावनामेइ ॥६॥ ति ततः शैलेशी प्रतिपद्यते, तत्र शिलाभिनिवृत्तः शिलानां वाऽयमित्यण शैलः-पर्वतस्तेषामीशः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452