Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 382
________________ अध्ययनं-१ - [नि.९५२] ३७९ पच्छा सो सिद्धत्ति । उक्तस्तपः सिद्धः, साम्प्रतं कर्मक्षयसिद्धप्रतिपादनाय गाथाचरमदलमाह-'सो कम्म' इत्यादि, स कर्मक्षयसिद्धः, यः किंविशिष्ट इत्यत आह-'सर्वक्षीणकर्मांशः' सर्वे-निरवशेषाः क्षीणाः कर्मांशा-कर्मभेदा यस्य स तथाविध इति गाथार्थः ।। साम्प्रतं कर्मक्षयसिद्धमेव प्रपञ्चतो निरुक्तविधिना प्रतिपादयन्नाहनि. (९५३) . दीहकालरयं जं तु कम्मं से सिअमट्टहा । सिअंधंतंति सिद्धस्स सिद्धत्तमुवजायइ ॥ वृ- दीर्घः सन्तानापेक्षयाऽनादित्वात् स्थितिबन्धकालो यस्य तद्दीर्घकालं, निसर्गनिर्मलजीवानुरञ्जनाच्च कर्मैव भण्यते ततश्च दीर्घकालं च तद्रजश्चेति दीर्घकालरजः, यच्छब्दः सर्वनामत्वादुद्देशवचनः, यत्कर्मेत्यप्रकारं, तुशब्दो भव्यकर्मविशेषणार्थः, यतो नाभव्यकर्म सर्वथा ध्यामत इति, ततश्च यद्भव्यकर्मेति 'शेषितम्' इति शेषं कृतं शेषितं-स्थित्यादिभिः प्रभूतं सत् स्थितिसङ्ख्यानुभावापेक्षयैवानाभोगसद्दर्शनज्ञानचरणाधुपायतः शेषम्-अल्पं कृतमिति भावः, प्राक् किं-भूतं सच्छेषितम् ? इत्याह-'अष्टधा सितम्' अष्टप्रकारं ज्ञानावरणादिभेदेन सितं "सित वर्णबन्धनयो' रिति वचनात् सितंबद्धमुच्यते । इदानीं निरुक्तिमुपदर्शयति-तच्छेषितं सितं कर्म भातं, ‘मा शब्दाग्निसंयोगयो रिति वचनात् ध्यानानलेन दग्धं महानिना लोहमलवदस्येति सिद्ध इति, एवं कर्मदहनानन्तरं सिद्धस्यैव सतः किं ? -सिद्धत्वमुपजायते, नासिद्धस्य, 'भव्योऽसिद्धो न सिध्यतीति वचनाद्, उपजायत इत्यपि तदात्मनः स्वाभाविकमेव सदनादिकवृितं तदावरणविगमेनाऽऽविर्भवति तत्त्वतः तथाऽपि लौकिकवाचोयुक्तया व्यवहारदेशनयोपजायत इत्युच्यते, अथवा सिद्धस्य सिद्धत्वं भावरूपमुपजायते, न तु प्रदीपनिर्वाणकल्पमभावरूपमिति नयमतान्तरव्यवच्छेदार्थमेतत्, तथा चाऽऽहुरेके 'दीपो यथा निवृत्तिमभ्युपेतो, नैवावनि गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित्, नेहक्षयात् केवलमति शान्तिम् ॥१॥ इत्यादि, एवं विधसिद्धत्वभावे दीक्षादिप्रयासवैयर्थ्यात् निरन्वयक्षणभङ्गस्य चायुज्यमानत्वात्, प्रदीपदृष्टान्तस्यायसिद्धत्वात्, तथाहि-तत्र त रूव पुद्गला भास्वरं रूपं परित्यज्य तामसं रूपान्तरमासादयन्तीत्यलं विस्तरेण, अथवाऽन्यथा व्याख्यायते 'दीर्घकालरयं' इति रयः-वेगः चेष्टाऽनुभवः फलमित्यनान्तरं, ततश्च दीर्घकालो रयोऽस्येति दीर्घकालरयं, सन्तानोपभोग्यत्वादिति भावना, यद्भव्यर्म ‘सेसित' मिति श्लेषितमिति संश्लिष्ट लेश्यानुभावात् अष्टधा सितमित्यादि पूर्ववत्, अथवाऽन्था व्याख्यायते-दीर्घकालरज इति, तत्र रज इव रजः सूक्ष्मतया नेहबन्धनयोग्यत्वाद्वा रज इत्युच्यते, यद्भव्यकर्मेति च नैवं व्याख्यायते, साक्षात्मकर्माभिधनेन सर्वनाम्नो निरर्थकत्वात्, प्रकरणादेव भव्यस्यावगम्यमानत्वाद्, अभव्यस्य सिद्धत्वानुपपत्तेः, ततश्च जन्तुकर्म इति व्याख्यायते, जन्तुः-जीवस्तस्य कर्म जन्तुकर्म, अनेनाबद्धकर्मव्यवच्छेदमाह, तच्च से' तस्य जन्तोः 'असितम्' असितमिति कृष्णमशूभं संसारानुबन्धित्वात्, एवंविधस्यैव च क्षयः श्रेयानिति, न तु शुभस्य स्वरूपस्येति भावना, अष्टधा सितमिति पूर्ववदिति गाथार्थः। प्रथमव्याख्यापक्षमधिकृत्य सम्बन्धमाह-तत्कर्मशेषं तस्य समस्थित्यसमस्थिति वा स्यात् ?, न तावत् समस्थिति विषमनिबन्धनत्वात्, नाप्यसमस्थिति चरमसमये युगपत् क्षयासम्भवादिति, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452