________________
उपोद्घातः - [नि.८२२]
३०१ किण्हलेसा काउलेसं पप्प, किण्हलेसा तेउलेसं पप्प, एवं जाव सुक्कलेसं पप्प, एवमेगेगा सव्वाहिं चारिजति', ततश्च सम्यक्त्वश्रुतं सर्वास्ववस्थितकृष्णादिद्रव्यालेश्यासुलभते नारकादिरपि, शुद्धासु तेजोलेश्याद्यासु तत्तद्रव्यसाचिव्य-सञ्जातात्मपरिणामलक्षणासु तिसृषु च चारित्रं, शेषं पूर्ववदिति गाथार्थः ॥ साम्प्रतं परिणामद्वारावयवार्थ प्रतिदर्शयन्नाहनि. (८२३) वढते परिणामे पडिवज्जइ सो चउण्हमन्नयरं ।
एमेवऽवट्ठियंमिवि हायंति न किंचि पडिवजे । वृ- परिणामः-अध्यवसायविशेषः, तत्र शुभशुभतररूपतया वर्द्धमाने परिणामे प्रतिपद्यते स 'चतुर्णा' सम्यक्त्वादिसामायिकानामन्यतरत्, ‘एमेवऽवट्ठियंमिवि'त्ति एवमेवावस्थितेऽपि शुभे परिणामे प्रतिपद्यते स चतुर्णामन्यतरदिति, 'हायंति न किंचि पडिवज्जे' त्ति क्षीयमाणे शुभे परिणामे न किञ्चित् सामायिकं प्रतिपद्यते, प्राक्प्रतिपन्नस्तु त्रिष्वपि परिणामेषु भवतीति गाथार्थः ॥ अधुना वेदनासमुद्घातकर्मद्वारद्वयव्याचिख्यासयाऽऽहनि. (८२४) दुविहाएँ वेयणाए पडिवजइ सो चउण्हमन्नयरं ।
असमोहओऽवि एमेव पुव्वपडिवण्णए भयणा ॥ कृ-द्विविधायां वेदनायां-सातासातरूपायां सत्यां प्रतिपद्यते स चतुर्णामन्यतरत्, प्राक्प्रतिपन्नश्च भवति, 'असमोहतोऽवि एमेव'त्ति असमवहतोऽप्येवमेव प्रतिपद्यते स चतुर्णामन्यतरत्, प्राक्प्रतिपन्नश्च भवति, समवहतस्तु केवलिसमुद्घातादिना सप्तविधे न प्रतिपद्यते, किन्तु 'पुव्वपडिवण्णए भयण' ति पूर्वप्रतिपन्नके समवहते विचारयितुमारब्धे भजना सेवना समर्थना कार्या, पूर्वप्रतिपन्नो भवतीत्यर्थः, सप्तविधत्वं पुनः समुद्घातस्य, यथोक्तम्
'केवलि कसायमरणे वेदण वेउव्वि तेय आहारे ।
सत्तविह समुग्घातो पन्नत्तो वीयरागेहिं ॥१॥ इह च पूर्वप्रतिपनके भजना, समवहतो हि सामायिकद्वयस्य त्रयस्य वा पूर्वप्रतिपनको भावनीय इति गाथार्थः ।। गतं द्वारद्वयं, निर्वेष्टनद्वारप्रतिपादनायाहनि. (८२५) दव्वेण य भावेण य निविलुतो चउण्हमन्नयरं ।
नरएसु अनुव्बट्टे दुगं चउक्कं सिया उ उव्वट्टे ॥ वृ-द्रव्यतो भावतश्च निर्वेष्टयन् चतुर्णामन्यतरत् प्रतिपद्यते प्राक्प्रतिपन्नश्वास्ति, द्रव्यनिर्वेष्टनं कर्मप्रदेशविसङ्घातरूपं भावनिर्वेष्टनं क्रोधादिहानिलक्षणं, तत्र सर्वमपि कर्म निर्वेष्टयंश्चतुष्टयं लभते, विशेषतस्तदावरणं ज्ञानावरणं निर्वेष्टयन् श्रुतसामायिकमानोति मोहनीयं तु शेषत्रयमिति, संवेष्टस्त्वनन्तानुबन्ध्यादीन् न प्रतिपद्यते, शेषकर्म त्वङ्गीकृत्योभयथाऽप्यस्ति । उद्वर्तनाद्वारमधुना-नरकेषु-अधिकरणभूतेष्वनुद्वर्तयन्, तत्रस्थ एवेत्यार्थः, नरकाद्वेति पाठान्तरं, 'दुगं' ति आद्यं सामायिकद्विकं प्रतिपद्यते, तदेव चाधिकृत्य पूर्वप्रतिपन्नो भवति, उदृत्तस्तु ‘स्यात्' कदाचित् चतुष्कं प्रतिपद्यते कदाचित् त्रिकं,स पूवप्रतिपन्नोऽप्यस्त्येवेति गाथार्थः ॥ नि. (८२६) तिरिएसु अनुव्वट्टे तिगं चउक्कं सिया उ उव्वट्टे ।
मणनुएसु अनुव्बट्टे चउरो ति दुगं तु उव्वट्टे । वृ. 'तिर्यक्षु' गर्भव्युत्क्रान्तिकेषु संशिष्वनुहृत्तः सन् त्रिकम्' आद्यं सामायिकत्रयमधिकृत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org