SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ३०२ आवश्यक मूलसूत्रम् - १ प्रतिपत्ता प्राक्प्रतिपन्नश्च भवतीत्यध्याहारः, 'चउक्कं सिया उ उव्वट्टे' उद्वृत्तस्तु मनष्यादिष्वायातः 'स्यात्' कदाचिच्चतुष्टयं स्यात् त्रिकं स्यात् द्विकमधिकृत्योभयथाऽपि भवतीति, 'मनुएसु अनुव्वट्टे चउरो ति दुगं तु उव्वट्टे' मनुष्येष्वनुद्वृत्तः सन् चत्वारि प्रतिपद्यते प्राक्प्रतिपन्नश्च भवति, त्रीणि द्विकं, तुशब्दो विशेषणे, उद्वृत्तस्तिर्यग्नारकामरेष्वायातः त्रीणि द्विकं वाऽधिकृत्योभयथाऽपि भवतीति गाथार्थः ॥ नि. (८२७) देवेसु अनुव्वट्टे दुगं चउक्कं सिया उ उव्वट्टे । उव्वट्टमाणओ पुं सव्वोऽवि न किंचि पडिवजे ॥ वृ- देवेष्वनुद्वृत्तः सन् 'द्विकम्' आद्यं सामायिकद्वयमाश्रित्योभयथाऽपि भवतीति क्रिया, 'चउक्कं सिया उ उव्वट्टे' त्ति पूर्ववत्, उद्वर्तमानकः पुनरपान्तरालगतौ सर्वोऽप्यमरादिर्ज किश्चित् प्रतिपद्यते, प्राक्प्रतिपन्नस्तु द्वयोर्भवतीति गाथार्थः । आश्रवकरणद्वारप्रतिपादनायाहनि. (८२८) नीसवमाणो जीवो पडिवज्जइ सो चउण्ह मन्नयरं । पुव्वपडिवण्णओ पुण सिय आसवओ व णीसवओ ॥ वृ- निश्रावयन् यस्मात् सामायिकं प्रतिपद्यते, तदावरणं कर्मनिर्जरन्नित्यर्थः, शेषकर्म तु बध्नन्नपि जीव- आत्मा प्रतिपद्यते स चतुर्णामन्यतरत्, पूर्वप्रतिपन्नकः पुनः स्यादाश्रवको बन्धक इत्यर्थः, निःश्रावको वा, वाशब्दस्य व्यवहितः, सम्बन्धः, आह-निर्वेष्टनद्वारादस्य को विशेष इति ?, उच्यते, निर्वेष्टनस्य कर्मप्रदेशविङ्खातरूपत्वात् क्रियाकालो गृहीतः, निःश्रवणस्य तु निर्जरारूपत्वा-न्निष्ठाकाल इति, अथवा तत्र संवेष्टनवक्तव्यताऽर्थतोऽभिहिताः, इह तु साक्षादिति गाथार्थः ।। अधुनाऽलङ्कारशयनासनस्थानचङ्कमणद्वारकदम्बकव्याचिख्यासयाऽऽहनि. (८२९) उम्मुक्कमनुम्मुक्के उम्मुचंते य केसलंकारे । पडिवज्जेज्जऽन्नयरं सयणाईसुंपि एमेव ॥ वृ- 'उन्मुक्ते' परित्यक्ते 'अनुन्मुक्ते' अपरित्यक्ते अनुस्वारोऽलाक्षणिकः, उन्मुञ्चंश्च केशालङ्कारान्; केशग्रहणं कटककेयूराद्युपलक्षणं, प्रतिपद्येत अन्यतरच्चतुर्णां 'सयनादीसुंपि एमेव' त्ति शयनादिष्वपि द्वारेषु तिसृष्वप्यवस्थास्वेवमेव योजना कार्या, उन्मुक्तशयनोऽनुन्मुक्तशयनः तथोन्मुञ्चन् चतुर्णामन्यतत् प्रतिपद्यते प्राक्प्रतिपन्नश्च भवति, एवं शेषयोजना कार्या, इति गाथार्थः । उपोद्घातनिर्युक्तौ द्वितीयद्वारगाथायां केति द्वारं गतम्, अधुना केष्विति द्वारं व्याचिख्यासुराह नि. (८३०) सव्वगयं सम्मत्तं सुए चरित्ते न पजवा सव्वे । देसविरइं पडुच्चा दोन्हवि पडिसेहणं कुज्जा | वृ- अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमिति ?, तत्र सर्वगतं सम्यक्त्वं, सर्वद्रव्यपर्यायरुचिलक्षणत्वात् तस्य, तथा 'श्रुते' श्रुतसामायिके 'चारित्रे' चारित्रसामायिके न पर्यायाः सर्वे विषयाः, श्रुतस्याभिलाप्यविषयत्वाद्, द्रव्यस्य चाभिलाप्यानभिलाप्यपर्याययुक्तत्वात्, चारित्रस्यापि 'पढमंमि सव्वजीवा' इत्यादिना सर्वद्रव्यासर्वपर्यायविषयतायाः प्रतिपादितत्वात्; देशविरतिं प्रतीत्य द्वयोरपि-सकलद्रव्यपर्याययोः प्रतिबेधनं कुर्यात्, न सर्वद्रव्यविषयं नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावना । आह-अयं सामायिकविषयः किंद्वारे प्ररूपित एवेति किं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy