________________
३००
आवश्यक मूलसूत्रम्-१गोतमा ! संमुच्छिममनुस्से पडुच्च तिसुवि ओगाहणासु चउण्डंपि सामाइयाणं न पुव्वपडिवण्णगा नो पडिवजमाणगा । गमवक्कंतिय जहन्नोगाहणमणूसा सम्मत्तसुयाण पुव्वपडिवण्णगा होजाणो पडिवजमाणगा, अजहण्णुक्कोसोगाहणगा पुण चउण्हवि दुधावि संति, उक्कोसोगाहणगा पुण दुण्हं दुधावी' त्यादि, अलं प्रसङ्गेन ॥ गतं द्वारत्रयम्, अधुना लेश्याद्वारावयवार्थमभिधित्सुहारनि. (८२२) सम्मत्तसुयं सव्वासु लहइ सुद्धासु तीसु य चरित्तं ।
पुव्वपडिवण्णगो पुण अन्नयरीए उ लेसाए । वृ-सम्यक्त्वं च श्रुतं चेति एकवद्भावस्तत् सम्यक्त्वश्रुतं 'सर्वासु' कृष्णादिलेश्यासु 'लभते' प्रतिपद्यते, 'शुद्धासु तेजोलेश्याद्यासु तिसृष्वेव, चशब्दस्यावधारणार्थत्वात्, चारित्रं विरतिलक्षणं, लभत इति वर्तते, एवं प्रतिपद्यमानकमधिकृत्य लेश्याद्वारं निरूपितम्, अधुना प्राक्प्रतिपत्रमधिकृत्याऽऽह-'पुव्वपडिवण्णओ पुण अन्नतरीए उ लेसाए पूर्वप्रतिपन्नकः पुनरन्यतरस्यां तु लेश्यायां-कृष्णाद्यभिधानायां भवति । आह-मतिश्रुतज्ञानलाभचिन्तायां शुद्धासु तिसृषु प्रतिपद्यमानक उक्तः कथमिदानीं सस्मिभिधीयमानः सम्यक्त्वश्रुतप्रतिपत्ता न विरुध्यत इति ?, उच्यते, तत्र कृष्णादिद्रव्यसाचिव्यजनिताऽऽत्मपरिणामरूपां भावलेश्यामाश्रित्यासावुक्तः, इह त्ववस्थितकृष्णादिद्रव्यरूपां द्रव्यलेश्यामेव इत्यतो न विरोधः, उक्तं च-“से Yणं भंते ! किण्हलेसा नीललेस्सं पप्प नो तारूवत्ताए नो तावण्णत्ताए नो तागंधत्ताए नो तारसत्ताए नो ताफासत्ताए भुजो भुजो परिणमति ?, हंता गोतमा ! किण्णलेस्सा नीललेस्सं पप्प नो तारूवत्ताए जाव परिणमति, से केणटेणं भंते ! एवं वुच्चति-किण्हलेस्सा नीललेस्सं पप्प जाव नो परिणमइ ?, गोतमा ! आगारभावायाए वा से सिया पलिभागमायाए वा से सिया, किण्हलेस्सा णं साणो खलु नीललेसा, तत्थ गता उसकति वा अहिसक्कइ वा, से तेणटेणं गोतमा ! एवं वुच्चति-किण्हलेस्सा णीललेस्सं पप्प जाव नो परिणमति, ___ अयमस्यार्थः-'आगार' इत्यादि, आकार एव भाव आकारभावः, आकारभाव एव आकारभावमात्रं, मात्रशब्दः खल्वाकारभावव्यतिरिक्तप्रति-बिम्बादिधर्मान्तरप्रतिषेधवाचकः, अतस्तेनाकारभावमात्रेणैवासौ नीललेश्या स्यात्, न तु तत्स्वरूपापत्तितः, तथा प्रतिरूपो भागः प्रतिभागः, प्रतिबिम्बमित्यर्थः, प्रतिभाग एव प्रतिभागमानं, मात्रशब्दो वास्तवपरिणाम-प्रतिषेधवाचकः, अतस्तेन प्रतिभागमात्रेणैव असौ नीललेश्या स्यात्, न तु तत्स्वरूपत एवेत्यर्थः, स्फटिकवदुपधानवशादुपधानरूप इति द्दष्टान्तः ततश्च स्वरूपेण कृष्णलेश्यैवासौ न नीललेश्या, किं तर्हि?, तत्र गतोत्सर्पति, किमुक्तं भवति?-तत्रस्थैव-स्वरूपस्थैव नीललेश्यादि लेश्यान्तरं प्राप्योत्सर्पते इत्याकारभावं प्रतिबिम्बभागं वा नीललेश्यासम्बन्धिनमासादयतीत्यर्थः “एवं नीललेसा काउलेसं पप्प जाव णीललेसा णं सा णो खलु काउलेसा, तत्थ गता उस्सक्कइ वा ओसक्कइ वा" अयं भावार्थ:-तत्र गतोत्सर्पति, किमुक्तं भवति ?-तत्रस्थैव स्वरूपस्थैवोत्सर्पति, आकारभावं प्रतिबिम्बभागं वा कापोतलेश्यासम्बन्धिनमासादयति, तथाऽपसर्पति वा-नीललेश्यैव कृष्णलेश्यां प्राप्य, भावार्थस्तु पूर्ववत्: “एवं काउलेसा तेउलेसं पप्प, तेउलेसा पम्हलेसं पप्प, पम्हलेसा सुक्कलेसं पप्प, एवं सुक्कलेसा पम्हलेसं पप्प' भावार्थस्तु पूर्ववत्, “एवं किण्हेलसा नीललेसं पप्प,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org