Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 335
________________ ३३२ आवश्यक मूलसूत्रम्-१-१/१ सर्वसङ्ग्राही देशसङ्ग्राही च, तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात् तस्य चोत्पादव्ययरहितत्वान्नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः, 'सेसाणं उप्पण्णोति शेषाः-विशेषग्राहिणस्तेषां शेषाणां विशेषग्राहित्वात् तस्य चोत्पादव्ययवत्त्वात् उत्पादव्यशून्यस्य वान्ध्येयादिवदवस्तुत्वात् नमस्कारस्य च वस्तुत्वादुत्पन्न इति, आह-शेषाः सङ्ग्रहादयः, सङ्ग्रहस्य च विशेषग्राहित्वं नास्तीति, उच्यते, तस्यादिनैगम एवान्तर्भावान्न दोष इति, अतः शेषाणामुत्पन्नः, 'जइ कत्तो'त्ति यद्युत्पन्नः कुत? इति, आह-'तिविह-सामित्ता' त्रिविधं च तत् स्वामित्वं चेति समासः, तस्मास्त्रिविधस्वामित्वात्-त्रिविधस्वामिभावात् त्रिविधकारणादित्यर्थः । आह-एवमप्येकत्रैकदा परस्परविरुद्धधर्माध्यासदोषस्तदवस्थ एव, न, अशेषवस्तुन एव तत्त्वतः सामान्यविशेषात्मकत्वात्, सामान्यर्धेः सत्त्वादिभिरनुत्पादात् विशेषर्धेः संस्थानानुपूर्व्यादिभिरुत्पादाद्, विजृम्भितं चात्र भाष्यकृता तत्तु नोच्यते ग्रन्थविस्तर भयाद्, गमिनकामात्रमेवैतदिति गाथार्थः यदुक्तं -'त्रिविधस्वामित्वादिति, तत् त्रिविधस्वामित्वमुपदर्शयन्नाहनि. (८८९)समुट्ठाण १ वायणा २ लद्धिओ य ३ पढमे नयत्तिए तिविहं । उज्जुसुय पढमवजं सेसनया लद्धिमिच्छति ॥ वृ-समुत्थानतो वाचनातो लब्धितश्च नमस्कारः समुत्पद्यत इति वाक्यशेषः, सम्यक् सङ्गतं प्रशस्तं वोत्थानं समुत्थानं तन्निमित्तं नमस्कारस्य, कस्य समुत्थानम् ?, अन्यस्याश्रुतत्वात्तदाधारभूतत्वात् प्रत्यासन्नत्वाद् देहस्यैव गृह्यते इति, युक्तं च देहसमुत्थानं नमस्कारकारणं, तद्भावभावित्वान्यथाऽनुपपत्तेरिति, अतः समुत्थानतः १, वाचनं वाचना-परतः श्रवणम् अधिगम उपदेश इत्यनान्तरं, मा च नमस्कारकारणं, तद्भावभावित्वादेवेति, अतो वाचनात्ः २, लब्धिः-तदावरणकर्मक्षयोपशमलक्षणा, सा च कारणं, तद्भावभावित्वादेव, अतो लब्धितश्च ३, पदान्तप्रयुक्तश्चशब्दो नयापेक्षया त्रयाणामपि प्राधान्यख्यापनार्थः । अत एवाह-'पढमे नयत्तिए तिविहंति प्रथमे नयत्रिकेऽशुद्धनैगमसङ्ग्रहौ कथं त्रिविधं कारणमिच्छतः ?, तयोः सामान्यमात्रावलम्बित्वाद्, उच्यते, 'आदिनेगमस्सऽणुप्पन्न' इत्यत्रेव प्रथमनयत्रिकात् तयोरुत्कलितत्वान्न दोषः, 'उज्जुसुयपढमवज्जंति' क्रजुसूत्रः प्रथमवर्ज-समुत्थानाख्यकारणशून्यं कारणद्वयमेवेच्छति, समुत्थानस्य व्यभिचारित्वात्, तद्भावेऽपि, वाचनालब्धिशून्यस्यासम्भवात्, ‘सेस नया लद्धिमिच्छंति'त्ति शेषनयाः-शब्दादयो लब्धिमेव एकां कारण-मिच्छन्ति, वाचनाया अपि व्यभिचारित्वात्, तथाहि-सत्यामपि वाचनायां लब्धिरहितस्य गुरुकर्मणोऽभव्यस्य वा नैवोत्पद्यते नमस्कारः, तस्यां सत्यामेवोत्पद्यते, ततोऽसाधरणत्वात्सव कारणमिति गाथार्थः ॥ इदानीं निक्षेपः, स च चतुर्धा-नामनमस्कारः स्थापनानमस्कारः द्रव्यनमस्कारः भावनमस्कारश्च, नामस्थापने सुगमे, ज्ञभव्यशरीरातिरिक्तद्रव्यनमस्काराभिधित्सयाऽऽहनि. (८९०) निलाइ दव्व भावोवउत्तु जं कुञ्ज संमदिट्ठी उ । नेवाइअं पयं दव्वभावसंकोअनपयत्यो। वृ-निह्नवादिद्र्व्यनमस्कारः, नमस्कारनमस्कारवतोरव्यतिरेकात्, आदिशब्दात् द्रव्यार्थो वा यो मन्त्रदेवताधाराधनादाविति, एत्थ दव्वनमोक्कारे उदाहरणं-वसंतपुरे नयरे जियसत्तू राया, धारिणीसहिओ ओलोयणं करेइ, दमगपासणं, अनुकंपाए नइसरिसा रायाणोत्ति भणइ देवी, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452