Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३३६
आवश्यक मूलसूत्रम्-१-१/१
योगापेक्षया जघन्येनोत्कृष्टतश्च स एव, लब्धितश्च सर्वकालमिति ॥ कतिविधो वा? इत्यस्य प्रश्नस्य निर्वचनार्थो गाथावयवः-'अरिहाइ पंचविहो'त्ति अर्हत्सिद्धाचार्योपाध्याय-साधुपदादिसन्निपातात् पञ्चविधार्थसम्बन्धात् अर्हदादिपञ्चविध इत्यनेन चार्थान्तरेण वस्तुस्थित्या नमः पदस्याभिसम्बन्धमाहेति गाथार्थः ॥ गता षट्पदप्ररूपणेति, साम्प्रतं नवपदाया अवसरः, तत्रेयं गाथानि. (८९५)संतपयपरूवणया १ दव्वपमाणं च २ खित्त ३ फुसणा य ४।
कालो अ ५ अंतरं ६ भाग ७ भाव ८ अप्पाबहुं चेव ९॥ वृ-सत् इति सद्भूतं विद्यमानार्थमित्यर्थः, सच्च तत्पदं च सत्पदं तस्य प्ररूपणा सत्पदप्ररूपणा, कार्येत वाक्यशेषः, यतश्च नमस्कारो जीवद्रव्यादभिन्न इत्यतो द्रव्यप्रमाणं च वक्तव्यं, कियन्ति नमस्कारवन्ति जीवद्रव्याण? तथा क्षेत्रम' इति कियति नमस्कारः ? एवं स्पर्शना च कालश्च अन्तरं च वक्तव्यं, तथा भाग इति नमस्कारवन्तः शेष जीवानां कतिथे मागे वर्तन्त इति, 'भावे'त्ति कस्मिन् भावे ? 'अप्पाबहुंचेव' त्ति अल्पबहुत्वं च वक्तव्यं, प्राक्प्रतिपन्न-प्रतिपद्यमानकापेक्षयेति समासार्थः ॥ व्यासार्थस्तु प्रतिद्वारं वक्ष्यते, तत्राद्याद्वाराभिधित्सयाऽऽहनि. (८९६) संतपयं पडिवन्ने पडिवजंते अ मग्गणं गइसुं।
इंदिअ २ काए ३ वेए ४ जोए अ५ कसाय ६ लेसासु ७॥ नि. (८९७)सम्मत्त ८ नाण ९ दंसण १० संजय ११ उवओगओ अ १२ आहारे १३ । भासग १४ परित्त १५ पज्जत्त १६ सुहमे १७ सन्नी अ १८ भव १९ चरमे २०॥
वृ- इदं गाथाद्वयं पीठिकायां व्याख्यातत्वान्न विवियते । द्वारम् । अनुक्तद्वारत्रयावयवार्थप्रतिपादनायाहनि. (८९८) पलिआसंखिजइमे पडिवनो हुञ्ज खित्तलोगस्स ।
सत्तसु चउदसभागेसु हुज फुसणावि एमेव ॥ वृ. 'पलियासंखेजइमे पडिवन्नो होज' त्ति इयं भावना-सूक्ष्मक्षेत्रपल्योपमस्यासङ्ख्येयतमे भागे यावन्तः प्रदेशा एतावन्तो नमस्कारप्रतिपन्ना इति ।। 'खिंत्तलोगस्स सत्तसु चोद्दसभागेसु होज' त्ति गतार्थं, नवरमधोलोके पञ्चस्विति ।। 'फुसणावि एमेव' त्ति नवरं पर्यन्तवर्तिनोऽपि प्रदेशान् स्पृशतीति भेदेनाभिधानमिति गाथार्थः ॥ कालद्वारावय-वार्थव्याचिख्यासयाऽऽह‘नि. (८९९) एगं पडुच्च हिट्ठा तहेव नानाजिआण सव्वद्धा।
अंतर पडुच्च एगं जहन्नमंतोमुहुत्तं तु ॥ वृ- एकं जीवं प्रतीत्याधस्तात् षट्पदप्ररूपणायां यथा काल उक्तस्तथैव ज्ञातव्यः, नानाजीवानप्यधिकृत्य तथैव, यत आह-'तहेव नाणाजीवां सव्वद्धा भाणियव्वा' काका नीयते । 'अंतर पडुच्च एगं जहन्नमन्तोमुहुत्तं तु' कण्ड्यं, नवरं प्रतीत्यशब्दस्य व्यवहितो योगः, एकं प्रतीत्यैवमिति गाथार्थः ॥ नि. (९००) उक्कोसेणं चेयं अद्धापरिअट्टओ उ देसूणो ।
___ नानाजीवे नत्थि उ भावे य भवे खओवसमे ॥ वृ-उक्कोसेणं चेयं, तमेव दर्शयति-'अद्धापरियट्टओ उ देसूणो नानाजीवे नत्थि उ' नानाजीवान् प्रतीत्य नास्त्यन्तरं, सदाऽव्यवच्छिन्नत्वात् तस्य ।। 'भावे य भवे खओवसमे' त्ति, प्राचुर्य
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452