Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उपोद्घातः - [नि.५९६]
२११ अस्य को विशेष इति ? उच्यते, स कर्मसत्तागोचरः, अयं तु तदस्तित्वे सत्यपि जीवकर्मसंयोगविभागगोचर इति, तथा अपरस्य देवाः किं सन्ति ? नेति वा, अपरस्य तु नारकाश्च संशयगोचराः, किं ते सन्ति न सन्ति वा ?, तथा अपरस्य पुण्ये संशयः, कर्मणि सत्यपि किं पुण्यमेव प्रकर्षप्राप्तं प्रकृष्टसुखहेतुः, तदेव चापचीयमानमत्यन्तस्वल्पावस्थं दुःखस्य उत तदतिरिक्तं पापमस्ति आहोस्विदेकमेव उभयरूपम् उत स्वतन्त्रमुभयमिति, अपरस्य तु परलोके संशयः, सत्यप्यात्मनि परलोको-भवान्तरलक्षणः किमस्ति नास्ति? इति, अपरस्य तु निर्वाणे संशयः, निर्वाणं किमस्ति नास्ति ? इति, आह-बन्धमोक्षसंशयात् अस्य को विशेष इति, उच्यते, स हि उभयगोचरः, अयं तु केवलविषय एव, तथा किं संसाराभावमात्र एव असौ मोक्षः ? उत अन्यथा ? इत्यादि, इति गाथार्थः ॥ साम्प्रतं गणधरपरिवारमानप्रदर्शनाय आहनि. (५९७) पंचण्हं पंचसया अटुट्ठसया य होंति दोण्ह गणा।
दोण्हं तु जुयलयाणं तिसओ तिसओ भवे गच्छो । वृ-पञ्चानामाद्यानां गणधराणां पञ्च श्तानि प्रत्येकं प्रत्येकं परिवार इति, तथा अर्द्धं चतुर्थस्य येषु नामि अर्धचतुर्थानि २ शतानि अर्द्धचतुर्थशतानि २ मानं ययोः तौ अर्धचतुर्थशतौ भवतः द्वयोः प्रत्येकं गणौ, इह गणः समुदाय एव उच्यते, न पुनरागमिक इति, तथा द्वयोस्तु गणधरयुगलयोः त्रिशतः त्रिशतो भवति गच्छः, एतदुक्तं भवति-उपरितनानां चतुर्णां गणधराणां प्रत्येकं त्रिशतमानः परिवार इति गाथार्थः । उक्तमानुषङ्गिकं, प्रकृतं उच्यते-ते हि देवाः तं यज्ञपाटं परिहृत्य समवसरणभुवि निपतितवन्तः, तांश्च तथा दृष्ट्वा लोकाऽवि तत्रैव ययौ, भगवन्तं तु त्रिदशलोकेन पूज्यमानं दृष्ट्वा अतीव हर्ष चक्रे, प्रवादश्च सञ्जातः- सर्वज्ञाऽत्र समवसृतः, तं देवाः पूजयन्ति इति, अत्रान्तरे खल्वाकर्णितसर्वज्ञ-प्रवादाऽमर्पध्मातः खल्विन्द्रभूतिर्भगवन्तं प्रति प्रस्थित इत्याहनि. (५९८) सोऊण कीरमाणीं महिमं देवेहि जिनवरिंदस्स ।
अह एह अहम्माणी अमरिसिओ इंदभूइत्ति ॥ वृ-श्रुत्वा च क्रियमाणां, दृष्ट्वा वा पाठान्तरं, महिमां देवैर्जिनवरेन्द्रस्य, अथास्मिन् प्रस्तावे 'एइ' त्ति आगच्छति भगवत्समीपम् 'अहम्माणि' त्ति अहमेव विद्वान् इति मानोऽस्य इति अहंमानी, 'अमर्षितः' अमर्षयुक्तः, अमर्षो-मत्सरविशेषः, मयि सति कोऽन्यः सर्वज्ञः ? इति, अपनयामि अद्य सर्वज्ञवादम्, इत्यादिसङ्कल्पकलुषितान्तरात्मा, कोऽसौ इत्याह-इन्द्रभूतिः इति गाथार्थः । स च भगवत्समीपं प्राप्य भगवन्तं च चतुस्त्रिंशदतिशयसमन्वितं त्रिदशासुरनरेश्वरपवृितं दृष्ट्वा साशङ्कः तदग्रतस्तस्थौ, अत्रान्तरेनि. (५९९) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं ।
नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ-'आभाषितश्च' संलप्तश्च, केन ? जिनेन, किंविशिष्टेन ? -जातिः-प्रसूतिः जरा-वयोहानिलक्षणा मरणं-दशविधप्राणवियोगरूपम् एभिर्विप्रमुक्तस्तेन, कथम् ?-नाम्ना च हे इन्द्रभूते ! गोत्रेण च हे गौतम ! किंविशिष्टेन जिनेन इत्याह-सर्वज्ञेन सर्वदर्शिना । आह-यो जरामरणविप्रमुक्तः स सर्वज्ञ एवेति गतार्थत्वात् विशेषणवैयर्थ्य, न, नयवादपरिकल्पितजात्यादिवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452