Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1702
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [८२] आवश्यक”- मूलसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], निर्युक्तिः [१५८६...] भाष्यं [२५३...] || इत्यस्य स्युडन्तस्य अश्यत इत्यशनं भवति, तथा 'पा पाने' इत्यस्य पीयत इति पानमिति, 'खाद भक्षणे इत्यस्य च वक्तव्यादिमन् प्रत्ययान्तस्य खाद्यत इति खादिमं भवति, एवं 'स्वद स्वर्द आस्वादने' इत्यस्य च स्वाद्यत इति स्वादिमं अथवा खाद्यं स्वाद्यं च, 'अन्यत्रे'ति परिवर्जनार्थ यथा 'अन्यत्र द्रोणभीष्माभ्यां सर्वे योधाः पराङ्मुखा' इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोगं मुक्त्वेत्यर्थः, तथा सहसाकरणं सहसाकार:- अति प्रवृत्तियोगादनिवर्त्तनमित्यर्थः तेन तं मुक्त्वा युत्सृजतीत्यर्थः । एष पदार्थः, पदविग्रहस्तु समासभाक्पदविषय इति कचि| देव भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्र| समुदायार्थः ॥ अधुना सूत्रस्पर्शिक निर्युक्तत्येदमेव निरूपयन्नाह असणं पाणगं चेव, खाइमं साइमं तहा। एसो आहारविही, चउव्विहो होइ नायव्वो ।। १५८७ ॥ आसुं खुहं समेई, असणं पाणाणुवग्गहे पाणं । खे माइ खाइमंति य, साएइ गुणे तओ साई ।। १५८८ ।। अशनं मण्डकौदनादि, पानं चैव द्राक्षापानादि, खादिमं-फलादि तथा स्वादिमं-गुडताम्बूलपूगफलादि, एष आहार| विधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः ।। १५८७ ॥ साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह - आशु - शीघ्रं क्षुधां बुभुक्षां शमयतीत्यशनं, तथा प्राणानाम्-इन्द्रियादिलक्षणानां उपग्रहे उपकारे यद् वर्त्तत इति गम्यते तत् पानमिति, खमिति-आकाशं तच मुखविवरमेव तस्मिन् मातीति खादिमं, स्वादयति गुणान् रसादीन् संयमगुणान् वा यतस्ततः स्वादिमं, Forest Use Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1701 ~ big

Loading...

Page Navigation
1 ... 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736