Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1704
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५९०] भाष्यं [२५३...] (४०) A प्रत सूत्रांक [सू.] 'अर्द्ध कुकुट्टयाः पच्यते अर्द्ध प्रसवाय कल्प्यते' इति, अपरिणतानां श्रद्धानं च न जायते, एवं तु सामान्यविशेषभेदनिरूपणायां सुखावसेयं सुखश्रद्धेयं च भवति इति गाथार्थः ॥ १५९० ॥ तथा चाह असणं पाणगं चेव, खाइमं साइमं तहा । एवं परूवियंमी, सद्दहिउँ जे सुहं होइ ॥ १५९१ ।। ८. अशनं पानकं चैव खादिमं स्वादिम तथा, एवं प्ररूपिते-सामान्यविशेषभावेनाख्याते, तथावबोधात् श्रद्धातुं सुखं | भवति, मुखेन श्रद्धा प्रवर्तते, उपलक्षणार्थत्वाद् दीयते पाल्यते च सुखमिति गाथार्थः ॥ १५९१ ॥ आह-मनसाऽन्यथा संप्रधारिते प्रत्याख्याने त्रिविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र का प्रमाण, उच्यते, शिष्यस्य मनोगतो भाव इति, आह चअन्नस्थ निवडिए वंजणंमि जो खलु मणोगओ भावो । तं खलु पच्चक्खाणं न पमाणं बंजणच्छलणा ॥१५९२॥ अन्यत्र निपतिते व्यञ्जने-त्रिविधपत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शब्दे यः खलु मनोगतो भावः। प्रत्याख्यातुः खलुशब्दो विशेषणे अधिकतरसंयमयोगकरणापहतचेतसोऽन्यत्र निपतिते न तु तथाविधप्रमादात् यो मनो गतो भावः आद्यः तत् खलु प्रत्याख्यानं प्रमाण, अनेनापान्तरालगतसूक्ष्मविवक्षान्तरप्रतिषेधमाह, आद्याया एव प्रवर्तक४खात्, व्यवहारदर्शनस्य चाधिकृतत्वाद्, अतःन प्रमाण व्यञ्जन-तच्छिष्याचार्ययोर्वचनं, किमिति !, छलनाऽसी व्यञ्ज-18 दानमात्र, तदन्यथाभावसभावादिति गाथार्थः ॥ १५९२ ॥ इदं च प्रत्याख्यानं प्रधान निजराकारणमिति विधिवदनुपा उनीयं, तथा चाह दीप अनुक्रम [८२ R ainrary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1703~

Loading...

Page Navigation
1 ... 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736