Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [२], मूलं [३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक
श्रीभग
८ शतके
[३१५३२२
लघुवृत्तौ
२ उद्देशः
गाथा:
असङ्ख्यातस्यासङ्ख्यात भेदत्वात् अनन्तस्य अनन्तभेदत्वाच्चानन्ता विशेषाः स्युरिति, अथवा तज्ज्ञेयस्यानन्तत्वात् प्रतिज्ञेयं च तस्य | मिद्यमानत्वात् , अथ चैतत् ज्ञानमविभागपरिच्छेदैर्बुद्ध्या परिच्छिद्यमानमनन्तखण्डं स्यादित्येवमनन्ता इति, तथा ये पदार्थान्तरप
र्यायाः ते तस्य परपर्यायाः, ते च खपर्यायेभ्योऽनन्तगुणाः, परेषामनन्तगुणत्वादिति, ननु यदि ते परपर्यायास्तदा तस्येति न व्यपदेष्टुं | युक्तं, परसम्बन्धित्वात् , अथ तस्य ते तदा न परपर्यायास्ते व्यपदेष्टव्याः, स्वसम्बन्धित्वादिति, अत्रोच्यते-यस्मात् तत्रासम्बद्धास्ते
तस्मादेषां परपर्यायव्यपदेशः, यस्माच ते(त्यागेन)परिच्छिद्यमानत्वेन च तस्मिन्नुपयुज्यन्ते तस्मात्तस्य पर्यचा इति व्यपदिश्यन्ते, यथा | असम्बद्धमपि धनं खधनं इति, उपयुज्यमानत्वात , आह च-'जइ ते परपज्जाया न तप ? अह तप न परपजाया । आचार्यः प्राह
जं तम्मि असंबद्धा तो परपायववदेसो ॥१।चायसपञ्जायविसेसणाइणा तस्स जमुवजुजंति । सधणमिवासंबद्धं हवंति ते पजवा | तस्स ॥२॥" 'केवइया णं सुयनाणपल्लव'त्ति, एवं चेव' श्रुतज्ञानपर्यायाः प्राप्ताः, ते तथैव द्विधा, तत्र स्वपर्याया ये श्रुतज्ञानस्य स्वगताक्षरश्रुतादयो भेदास्तेऽप्यनन्ताः, क्षयोपशमवैचित्र्यस्य पदार्थानां चानन्त्याभ्यां श्रुतानुमारिणां वोधानामनन्तत्वादिति, अविभागपरिच्छेदानंत्याच, परपर्यायास्त्वनन्ताः सर्वभावानां प्रतीता एव, अथवा श्रुतग्रन्थानुसारिज्ञानं श्रुतज्ञान, श्रुतग्रन्थश्चाक्षरात्मकः अक्षराणि चाकारादीनि तेषामे कैकमक्षरं यथायोगमुदात्तानुदात्तस्वरितभेदान् सानुनासिकनिरनुनासिकभेदादल्पप्रयत्नमहाप्रयत्नभेदात् संयुक्तासंयुक्तद्वयादिसंयोगभेदादभिधेयानन्त्याच भिद्यमानमनन्तभेदं स्यात् । ते च तस्य स्वपर्यायाः, परपर्यायाश्चानन्ता एव, एवमनन्तपर्यायं तत् , आह च-'एकेकमक्खरं पुण सपरपजायभेयओ भिन्नं । तं सम्बदवपजायरासिमाणं मणेयव्वं ॥१॥ जे लहइ केवलो से सवण्णसहिओ य पज्जवेऽगारो । ते तस्स सपजाया सेसा परपजवा तस्स ॥२॥"ति, एव
दीप अनुक्रम [३८८३९६]
॥१२६॥
~260~
Loading... Page Navigation 1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312