Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 82
________________ वीतराग. सविवर. ॥३४॥ भव्यानामुच्छेदप्रसङ्गोऽनन्तानन्तसङ्खयोपेतत्वात् । इह यद्यदनन्तसङ्ख्योपेतं तत्तत्प्रतिसमयमेकद्वित्रादिसङ्ख्ययापगच्छदपि न कदाचन निर्लेपीभवति यथा अनागतकालस्तथाचानन्तानन्तसङ्ख्योपेता भव्या इत्यनुच्छेदः । एवं च सत्प्रमाणप्रति-दू ष्ठितेऽप्यात्मतत्त्वे तदाश्रितश्रेयोऽश्रेयोऽनेकान्तमतस्वर्गापवर्गादिषु कुग्रहग्रहिलतयैवाप्रतिपद्यमानं चार्वाकमवज्ञोपहतमेव कुर्वाणः स्तुतिकृदाह ॥ विमतिः संमतिर्वापि चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु यस्य मुह्यति शेमुषी ॥ ११॥ | तस्य सर्वापलापलोलुपस्य चार्वाकस्य विप्रतिपत्तिः सम्प्रतिपत्तिर्वा न विलोक्यते । यस्य परभवभवभृदपुनर्भवेषु सर्वम|तसम्मतेष्वपि मतिर्मुह्यति । मीमांसामांसलमतिमीमांसकोऽपि सर्वज्ञापलापं प्रलपन संशयज्ञानमेकमनेकाकारं प्रतिजानानो नानेकान्तं प्रतिक्षिपति । नास्तिकश्च महापापी तत्कथयाप्यलं कलाकौशलशालिनाम् ॥ अधुना सर्वमतप्रपन्नानकान्तयुत्तया वस्तुनः परमार्थसत्त्वमाह ॥ तेनोत्पादव्यवस्थेमसंभिन्नं गोरसादिवत् । त्वदुपज्ञं कृतधियः प्रपन्ना वस्तु वस्तुसत् ॥ १२ ॥ १ ननु ताथागतादीनामुपपत्त्या सांमत्त्यं चार्वाकस्य तु वराकस्योपेक्षामुपक्षिप्तवान् तदत्र मीमांसामांसलमतेमीमांसकस्य किमिति कामपि चर्चा नाकरोदाचार्यः । उच्यते । समस्तमतविक्षेपेण खयमेव प्रकारान्तरेणानेकान्तमतं प्रतिष्ठमानं तं प्रति प्रतिपत्त्युपपत्तिः पिष्टमेव पिनष्टीति नास्ति पर्यनुयोगावसरः । ततः सिद्धं सर्वमतमनेकान्तं । यत एव चानेकान्तात्मकं वस्तूपपत्तिक्षमं ततस्तत्सत्त्वमप्यनेकान्तात्मकमेवेत्युत्पादयन् । CROSARORESCAUSA ॥३४॥ Jain Education For Private & Personel Use Only Dhjainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194