Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 181
________________ Jain Education Pro वीतराग ! तस्यै भूमये नमोऽस्तु यस्यां तव चरणनखकिरणानि चिरं चूडामणीयन्ते रक्तत्वादतः परमतोऽधिकं वयं किम्ब्रूमो ? भगवत्पाद स्पृष्टेर्भूमेर्नमस्कारादपरस्याधिकस्य भक्तिवचसोऽभावात् ॥ ८ ॥ जन्मवानस्मि धन्योऽस्मि कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः ॥ ९ ॥ जन्म० हे वीतरागाऽहम् ! सफलावतारोऽस्मि, धन्यः पुण्यवानस्मि, कृतार्थोऽस्मि, यद्यस्मान्मुहुर्वारंवारं तव गुणसमूहरूपे रामणीयके लम्पटस्तदेकव्यसनोऽस्मि ॥ ९ ॥ इति पञ्चदशभक्तिस्तवप्रकाशावचूरिः ॥ १५ ॥ त्वन्मतामृतपानोत्था इतः शमरसोर्मयः । पराणयन्ति मां नाथ! परमानन्दसम्पदम् ॥ १ ॥ अथ प्रभोः पुरो रावां करोति । त्वन्मता० हे नाथ ! तवागमपीयूषपानोद्भवा उपशमर सतरङ्गाः परमाहूलादलक्ष्मीं मां पराणयन्ति प्रापयन्ति इतः एकतः ॥ १ ॥ इतश्चानादिसंस्कार मूच्छितो मूर्च्छयत्यलम् । रागोरुगविषावेगो हताशः करवाणि किम्! ॥ २ ॥ इत० हे वीतरागेतः अपरतश्चानादि० अनन्तकालभवभ्रमणवासना सञ्चितो रागभुजगगरलोद्गारोऽलमत्यर्थं मूर्छयति सज्ज्ञानशून्यतां प्रापयत्यतः कारणादहं हताशः प्रतिहतमनोरथः, किं करवाणि किं कुर्वे ॥ २ ॥ युग्मम् रागाहिगरला घातोऽकार्षं यत्कर्मवैशसम् । तद्वक्तुमप्यशक्तोऽस्मि धिग्मे प्रच्छन्नप्रापताम् ॥ ३ ॥ For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194