Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 189
________________ RECASS CALOCALCARROR वीतराग! सपर्यातस्तवाज्ञापालनं परम् । आज्ञाराडा विराडा च शिवाय च भवाय च ॥४॥ वीत. हे वीतराग! तव सपर्यातः सेवात आज्ञाराधनं परं प्रकृष्ट फलदं भावस्तवरूपत्वात् हेतुमाह-यतस्तवा वाराद्धाराधिता (शिवायापुनर्भवाय) भवाय संसाराय च स्यात् ॥४॥ आकालमियमाज्ञा ते हेयोपादेयगोचरा । आश्रवः सर्वथा हेय उपादेयश्च संवरः॥५॥ आका० हे वीतराग! ते तवाकालमासंसारमियमाज्ञा शिक्षास्ति कथंभूता? हेयो० हेयं त्याज्यमुपादेयं ग्राह्यं ते एव द्वे गोचरो विषयो यस्याः सा । तामेव दर्शयति-आश्रवः० आश्रवत्यात्मन्यनेन पापमित्याश्रवः कषायविषयप्रमादादि । स च हेयः संवरणं सावधव्यापारेभ्यो निवर्त्तनं संवरः सत्यशौचक्षमामार्दवादिरुपादेयः स्वीकार्यो विवेकिभिः॥५॥ आश्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् । इतीयमाहेतीमुष्टिरन्यदस्याः प्रपश्चनम् ॥६॥ आश्र० आश्रवः संसारकारणःस्यात्संवरो मुक्तिनिमित्तं स्यादितीयमाहत्यर्हत्संबन्धिनी मुष्टिः समस्तोपदेशसारसङ्घहरू|पा मूलग्रन्धिर्वर्त्तते । यच्चान्यदङ्गोपाङ्गादिरूपं दरीदृश्यते तदस्या भगवदाज्ञायाः प्रपश्चन विस्तारणमेव विज्ञेयम् ॥ ६॥ इत्याज्ञाराधनपरा अनन्ताः परिनिवृताः । निर्वान्ति चान्ये कचन निर्वास्यन्ति तथापरे ॥७॥ । इत्या० इति आश्रवः सर्वथा हेय इत्यादिरूपा या त्वदाज्ञा तदाराधनोद्यता अनन्ता जीवाः परिनिर्वृताः प्राक्काले मोक्षं गताः, अन्ये वचन महाविदेहादौ निर्वान्ति सम्प्रति मोक्षमाप्नुवन्ति तथाऽपरे जीवा निर्वास्यन्ति आगामिकाले मोक्षं यास्यन्ति ॥७॥ -CREA CELORDCROCHRONE C Jain Education For Private Personel Use Only ainelibrary.org RE

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194